अध्यायः 170
वने चरतां पाण्डवानां व्यासेन सान्त्वनं एकचक्रानगर्यां ब्राह्मणगृहे स्थापनं च ॥ 1 ॥
`वैशंपायन उवाच ।
ततस्ते पाण्डवाः सर्वे शालिहोत्राश्रमे तदा ।
पूजितास्तेन वन्येन तमामन्त्र्य महामुनिम् ॥
जटाः कृत्वाऽऽत्मनः सर्वे वल्कलाजिनवाससः ।
कुन्त्या सह महात्मानो बिभ्रतस्तापसं वपुः ॥
ब्राह्मं वेदमधीयाना वेदाङ्गानि च सर्वशः ।
नीतिशास्त्रं च धर्मज्ञा न्यायज्ञानं च पाण्डवाः ॥
शालिहोत्रप्रसादेन लब्ध्वा प्रीतिमवाप्य च ।'
ते वनेन वनं गत्वा घ्नन्तो मृगगणान्बहून् ।
अपक्रम्य ययू राजंस्त्वरमाणा महारथाः ॥
मत्स्यांस्त्रिगर्तान्पाञ्चालान्कीचकानन्तरेण च ।
रमणीयान्वनोद्देशान्प्रेक्षमाणाः सरांसि च ॥
क्वचिद्वहन्तो जननीं त्वरमाणा महारथाः ।
`क्वचिच्छ्रान्ताश्च कान्तारे क्वचित्तिष्ठन्ति हर्षिताः' ॥
क्वचिच्छन्देन गच्छन्तस्ते जग्मुः प्रसभं पुनः ।
पथि द्वैपायन सर्वे ददृशुः स्वपितामहम् ॥
तेऽभिवाद्य महात्मानं कृष्णद्वैपायनं तदा ।
तस्थुः प्राञ्जलयः सर्वे सह मात्रा परन्तपाः ॥
व्यास उवाच ।
तदाश्रमान्निर्गमनं मया ज्ञातं नरर्षभाः ।
घटोत्कचस्य चोत्पत्तिं ज्ञात्वा प्रीतिरवर्धत ॥
इदं नगरमभ्याशे रमणीयं निरामयम् ।
वसतेह प्रतिच्छन्ना ममागमनकाङ्क्षिणः ॥
वैशंपायन उवाच ।
एवं स तान्समाश्वास्य व्यासः पार्तानरिन्दमान् ।
एकचक्रामभिगतां कुन्तीमाश्वासयत्प्रभुः ॥
श्रीव्यास उवाच ।
कुर्यान्न केवलं धर्मं दुष्कृतं च तथान नरः ।
सुकृतं दुष्कृतं लोके न कर्ता नास्ति कश्चन ॥
अवश्यं लभते कर्ता फलं वै पुण्यपापयोः ।
दुष्कृतस्य फलेनैव प्राप्तं व्यसनमुत्तमम् ॥
तस्मान्माधवि मानार्हे मा च शोके मनः कृथाः ।
वैशंपायन उवाच ।
एवमुक्त्वा निवेश्यैनान्ब्राह्मणस्य निवेशने ॥
जगाम भगवान्व्यासो यताकाममृषिः प्रभुः ॥ ॥
इति श्रीमन्महाभारते आदिपर्वणि हिडिम्बवधपर्वणि सप्तत्यधिकशततमोऽध्यायः ॥ 170 ॥ ॥ समाप्तं हिडिम्बवधपर्व ॥