अध्यायः 179
(अथ चैत्ररथपर्व ॥ 11 ॥)
ब्राह्मणगृहे प्रतिश्रयार्थमागतस्य कस्यचिद्ब्राह्मणस्य मुखात् पाण्डवानां द्रौपदीस्वयंवरश्रवणम् ॥ 1 ॥ पाण्डवकृतधृष्टद्युन्नद्रौपदीसंभवप्रश्नस्य ब्राह्मणेनोत्तरकथनम् ॥ 2 ॥
जनमेजय उवाच ।
ते तथा पुरुषव्याघ्रा निहत्य बकराक्षसम् ।
अत ऊर्ध्वं ततो ब्रह्मन्किमकुर्वत पाण्डवाः ॥
वैशंपायन उवाच ।
तत्रैव न्यवसन्राजन्निहत्य बकराक्षसम् ।
अधीयानाः परं ब्रह्म ब्राह्मणस्य निवेशने ॥
ततः कतिपयाहस्य ब्राह्मणः संशितव्रतः ।
प्रतिश्रयार्थी तद्वेश्म ब्राह्मणस्याजगाम ह ॥
स म्यक् पूजयित्वा तं विप्रं विप्रर्षभस्तदा ।
ददौ प्रतिश्रयं तस्मै सदा सर्वातिथिव्रतः ॥
ततस्ते पाण्डवाः सर्वे सह कुन्त्या नरर्षभाः ।
उपासाञ्चक्रिरे विप्रं कथयन्तं कथाः शुभाः ॥
कथयामास देशांश्च तीर्थानि सरितस्तथा ।
राज्ञश्च विविधाश्चर्यान्देशांश्चैव पुराणि च ॥
स तत्राकथयद्विप्रः कथान्ते जनमेजय ।
पञ्चालेष्वद्भुताकारं याज्ञसेन्याः स्वयंवरम् ॥
धृष्टद्युम्नस्य चोत्पत्तिमुत्पत्तिं च शिखण्डिनः ।
अयोनिजत्वं कृष्णाया द्रुपदस्य महामखे ॥
तदद्भुततमं श्रुत्वा लोके तस्य महात्मनः ।
विस्तरेणैव पप्रच्छुः कथां ते पुरुषर्षभाः ॥
पाण्डवा ऊचुः ।
कथं द्रुपदपुत्रस्य धृष्टद्युम्नस्य पावकात् ।
वेदीमध्याच्च कृष्णायाः संभवः कथमद्भुतः ॥
कथं द्रोणान्महेष्वासात्सर्वाण्यस्त्राण्यशिक्षत ।
`धृष्टद्युम्नो महेष्वासः कथं द्रोणस्य मृत्युदः ।'
कथं विप्र सखायौ तौ भिन्नौ कस्य कृतेन वा ॥
वैशंपायन उवाच ।
एवं तैश्चोदितो राजन्स विप्रः पुरुषर्षभैः ।
कथयामास तत्सर्वं द्रौपदीसंभवं तदा ॥ ॥
इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि ऊनाशीत्यधिकशततमोऽध्यायः ॥ 179 ॥
1-179-7 याज्ञसेन्याः द्रौपद्याः ॥ 7 ॥ ऊनाशीत्यधिकशततमोऽध्यायः ॥ 179 ॥