अध्यायः 202
ब्राह्मणमध्यस्थान्पाण्डवान्विज्ञाय श्रीकृष्णेन बलरामाय कथंन ॥ 1 ॥ धनुर्दर्शनेनैव केषांचिद्राज्ञां धनुःपूरणे निरशत ॥ 2 ॥ शिशुपालादीनां धनुःपूरणे भङ्गः ॥ 3 ॥ अर्जुनस्य धनुःपूरणे एषणा ॥ 4 ॥
वैशंपायन उवाच ।
तेऽलङ्कृताः कुण्डलिनो युवानः
परस्परं स्पर्धमाना नरेन्द्राः ।
अस्त्रं बलं चात्मनि मन्यमानाः
सर्वें समुत्पेतुरुदायुधास्ते ॥
रूपेण वीर्येण कुले चैव
शीलेन वित्तेन च यौवनेन ।
समिद्धदर्पा मदवेगभिन्ना
मत्ता यथा हैमवता गजेन्द्राः ॥
परस्परं स्पर्धया प्रेक्षमाणाः
सङ्कल्पजेनाभिपरिप्लुताङ्गाः ।
कृष्णा ममैवेत्यभिभाषमाणा
नृपाः समुत्पेतुरथासनेभ्यः ॥
ते क्षत्रिया रङ्गगताः समेता
जिगीषमाणा द्रुपदात्मजां ताम् ।
चकाशिरे पर्वतराजकन्या-
मुमां यथा देवगणाः समेताः ॥
कन्दर्पबाणाभिनिपीडिताङ्गां
कृष्णागतैस्ते हृदयैर्नरेन्द्राः ।
रङ्गावतीर्णा द्रुपदात्मजार्थं
द्वेषं प्रचक्रुः सुहृदोऽपि तत्र ॥
अथाययुर्देवगणा विमानै
रुद्रादित्या वसवोऽथाश्विनौ च ।
साध्याश्च सर्वे मरुतस्तथैव
यमं पुरस्कृत्य धनेश्वरं च ॥
दैत्याः सुपर्णाश्च महोरगाश्च
देवर्षयो गुह्यकाश्चारणाश्च ।
विश्वावसुर्नारदपर्वतौ च
गन्धर्वमुख्याः सहसाऽप्सरोभिः ॥
हलायुधस्तत्र जनार्दनश्च
वृष्ण्यन्धकाश्चैव यताप्रधानम् ।
प्रेक्षां स्म चक्रुर्यदुपुङ्गवास्ते
स्थिताश्च कृष्णस्य मते महान्तः ॥
दृष्ट्वा तु तान्मत्तगजेन्द्ररूपा-
न्पञ्चाभिपद्मानिव वारणेन्द्रान् ।
भस्मावृताङ्गानिव हव्यवाहान्
कृष्णः प्रदध्यौ यदुवीरमुख्यः ॥
शशंस रामाय युधिष्ठिरं स
भीमं सजिष्णुं च यमौ च वीरौ ।
शनैःशनैस्तान्प्रसमीक्ष्य रामो
जनार्दनं प्रीतमना ददर्श ह ॥
अन्ये तु वीरा नृपपुत्रपौत्राः
कृष्णागतैर्नत्रमनःस्वभावैः ।
व्यायच्छमाना ददृशुर्न तान्वै
सन्दष्टदन्तच्छदताम्रनेत्राः ॥
तथैव पार्थाः पृथुबाहवस्ते
वीरौ यमौ चैव महानुभावौ ।
तां द्रौपदीं प्रेक्ष्य तदा स्म सर्वे
कन्दर्पबाणाभिहता बभूवुः ॥
देवर्षिगन्धर्वसमाकुलं त-
त्सुपर्णनागासुरसिद्धजुष्टम् ।
दिव्येन गन्धेन समाकुलं च
दिव्यैश्च पुष्पैरवकीर्यमाणम् ॥
महास्वनैर्दुन्दुभिनादितैश्च
बभूव तत्सङ्कुलमन्तरिक्षम् ।
विमानसंबाधमभूत्समन्ता-
त्सवेणुवीणापणवानुनादम् ॥
`समाजवाटोपरि संस्थितानां
मेघैः समन्तादिव गर्जमानैः ।'
ततस्तु ते राजगणाः क्रमेण
कृष्णानिमित्तं कृतविक्रमाश्च ।
सकर्णदुर्योधनशाल्वशल्य-
द्रौणायनिक्राथसुनीथवक्राः ॥
कलिङ्गवङ्गाधिपपाण्ड्यपौण्ड्रा
विदेहराजो यवनाधिपश्च ।
अन्ये च नानानृपपुत्रपौत्रा
राष्ट्राधिपाः पङ्कजपत्रनेत्राः ॥
किरीटहाराङ्गदचक्रवालै-
र्विभूषिताङ्गाः पृथुबाहवस्ते ।
अनुक्रमं विक्रमसत्वयुक्ता
बलेन वीर्येण च नर्दमानाः ॥
तत्कार्मुकं संहननोपपन्नं
सज्यं न शेकुर्मनसाऽपि कर्तुम् ।
ते विक्रमन्तः स्फुरता दृढेन
विक्षिप्यमाणा धनुषा नरेन्द्राः ॥
विचेष्टमाना धरणीतलस्था
यथाबलं शैक्ष्यगुणक्रमाश्च ।
गतौजसः स्नस्तकिरीटहारा
विनिःश्वसन्तः शमयांबभूवुः ॥
हहाकृतं तद्धनुषा दृढेन
विस्रस्तहाराङ्गदचक्रवालम् ।
कृष्णानिमित्तं विनिवृत्तकामं
राज्ञां तदा मण्डलमार्तमासीत् ॥
`एवं तेषु निवृत्तेषु क्षत्रियेषु समन्ततः ।
चेदीनामधिपो वीरो बलवानन्तकोपमः ॥
दमघोषात्मजो धीमाञ्शिशुपालो महाद्युतिः ।
धनुषोऽभ्याशमागम्य तस्थौ राज्ञां समक्षतः ॥
तदप्यारोप्यमाणं तु माषमात्रेऽभ्यताडयत् ।
धनुषा पीड्यमानस्तु जानुभ्यामगमन्महीम् ॥
तत उत्थाय राजा स स्वराष्ट्राण्यभिजग्मिवान् ।
ततो राजा जरासन्धो महावीर्यो महाबलः ॥
कम्बुग्रीवः पृथुव्यंसो मत्तवारणविक्रमः ।
मत्तवारणताम्राक्षो मत्तवारणवेगवान् ॥
धनुषोऽभ्याशमागत्य तस्थौ गिरिरिवाचलः ।
धनुरारोप्यमाणं तु सर्षमात्रेऽभ्यताडयत् ॥
ततः शल्यो महावीर्यो मद्रराजो महाबलः ।
धनुरारोप्यमाणं तु मुद्गमात्रेऽभ्यताडयत् ॥
तदैवागात्स्वयं राज्यं पश्चादनवलोकयन् ।
इदं धनुर्वरं कोऽद्य सज्यं कुर्वीत पार्थिवः ॥
इति निश्चित्य मनसा भूय एव स्थितस्तदा ।
ततो दुर्योधनो राजा धार्तराष्ट्रः परन्तपः ॥
मानी दृढास्त्रसंपन्नः सर्वैश्च नृपलक्षणैः ।
उत्थितः सहसा तत्र भ्रातृमध्ये महाबलः ॥
विलोक्य द्रौपदीं हृष्टो धनुषोऽभ्याशमागमत् ।
स बभौ धनुरादाय शक्रश्चापधरो यथा ॥
धनुरारोपयामास तिलमात्रेऽभ्यताडयत् ।
आरोप्यमाणं तद्राजा धनुषा बलिना तदा ॥
उत्तानशय्यमपतदङ्गुल्यन्तरताडितः ।
स ययौ ताडितस्तेन व्रीडन्निव नराधिपः ॥
ततो वैकर्तनः कर्णो वृषा वै सूतनन्दनः ।
धनुरभ्याशमागम्य तोलयामास तद्धनुः ॥
तं चाप्यारोप्यमाणं तद्रोममात्रेऽभ्यताडयत् ।
त्रैलोक्यविजयी कर्णः सत्वे त्रैलोक्यविश्रुतः ॥
धनुषा सोऽपि निर्धूत इति सर्वे भयाकुलाः ।
एवं कर्णे विनिर्धूते धनुषा च नृपोत्तमाः ॥
चक्षुर्भिरपि नापश्यन्विनम्रमुखपङ्कजाः ।
दृष्ट्वा कर्णं विनिर्धूतं लोके वीरा नृपोत्तमाः ॥
निराशा धनुरुद्धारे द्रौपदीसंगमेऽपि च ॥
तस्मिंस्तु संभ्रान्तजने समाजे
निक्षिप्तवादेषु जनाधिपेषु ।
कुन्तीसुतो जिष्णुरियेष कर्तुं
सज्यं धनुस्तत्सशरं च वीरः ॥
ततो वरिष्ठः सुरदानवाना-
मुदरधीर्वृष्णिकुलप्रवीरः ।
जहर्ष रामेण स पीड्य हस्तं
हस्तंगतां पाण्डुसुतस्य मत्वा ॥
न जज्ञिरेऽन्ये नृपविप्रमुख्याः
संछन्नरूपानथ पाण्डुपुत्रान् ।
विना हि लोके च यदुप्रवीरौ
धौम्यं हि धर्मं सह सोदरांश्च ॥ ॥
इति श्रीमन्महाभारते आदिपर्वणि स्वयंवरपर्वणि द्व्यधिकद्विशततमोऽध्यायः ॥ 202 ॥
1-202-3 संकल्पजेन कामेन ॥ 1-202-9 अभितः पद्मा लक्ष्मीर्येषां तान्सर्वाङ्गसुन्दरानित्यर्थः ॥ द्व्यधिकद्विशततमोऽध्यायः ॥ 202 ॥