अध्यायः 207
पाण्डवावासे धृष्टद्युम्नस्य निलीयावस्थानम् ॥ 1 ॥ भीमाद्यानीतस्य भैक्षस्य कुन्त्याज्ञया द्रौपद्या परिवेषणम् ॥ 2 ॥ सर्वं पाण्डववृत्तान्तं ज्ञात्वा धृष्टद्युम्नस्य प्रतिनिवर्तनम् ॥ 3 ॥
वैशंपायन उवाच ।
धृष्टद्युमनस्तु पाञ्चाल्यः पृष्ठतः कुरुनन्दनौ ।
अन्वगच्छत्तदा यान्तौ भार्गवस्य निवेशने ॥
सोज्ञायमानः पुरुषानवधाय समन्ततः ।
स्वयमारान्निलीनोऽभूद्भार्गवस्य निवेशने ॥
सायं च भीमस्तु रिपुप्रमाथी
जिष्णुर्यमौ चापि महानुभावौ ।
भैक्षं चरित्वा तु युधिष्ठिराय
निवेदयांचक्रुरदीनसत्वाः ॥
ततस्तु कुन्ती द्रुपदात्मजां ता-
मुवाच काले वचनं वदान्या ।
ततोऽग्रमादाय कुरुष्व भद्रे
बलिं च विप्राय च देहि भिक्षाम् ॥
ये चान्नमिच्छन्ति ददस्व तेभ्यः
परिश्रिता ये परितो मनुष्याः ।
ततश्च शेषं प्रविभज्य शीघ्र-
मर्धं चतुर्णां मम चात्मनश्च ॥
अर्धं तु भीमाय च देहि भद्रे
य एष नागर्षभतुल्यरूपः ।
गौरो युवा संहननोपपन्न
एषो हि वीरो बहुभुक् सदैव ॥
सा हृष्टरूपैव तु राजपुत्री
तस्या वचः साध्वविशङ्कमाना ।
यथावदुक्तं प्रचकार साध्वी
ते चापि सर्वे बुभुजुस्तदन्नम् ॥
कुशैस्तु भूमौ शयनं चकार
माद्रीपुत्रः सहदेवस्तपस्वी ।
अथात्मकीयान्यजिनानि सर्वे
संस्तीर्य वीराः सुषुपुर्धरण्याम् ॥
अगस्त्यकान्तामभितो दिशं तु
शिरांसि तेषां कुरुसत्तमानाम् ।
कुन्ती पुरस्तात्तु बभूव तेषां
पादान्तरे चाथ बभूव कृष्णा ॥
अशेत भूमौ सह पाण्डुपुत्रैः
पादोपधानीव कृता कुशेषु ।
न तत्र दुःखं मनसापि तस्या
न चावमेने कुरुपुङ्गवांस्तान् ॥
ते तत्र शूराः कथयांबभूवुः
कथा विचित्राः पृतनाधिकाराः ।
अस्त्राणि दिव्यानि रथांश्च नागान्
खड्गान्गदाश्चापि परश्वधांश्च ॥
तेषां कथास्ताः परिकीर्त्यमानाः
पाञ्चालराजस्य सुतस्तदानीम् ।
सुश्राव कृष्णां च तदा निषण्णां
ते चापि सर्वे ददृशुर्मनुष्याः ॥
धृष्टद्युम्नो राजपुत्रस्तु सर्वं
वृत्तं तेषां कथितं चैव रात्रौ ।
सर्वं राज्ञे द्रुपदायाखिलेन
निवेदयिष्यंस्त्वरितो जगाम ॥
पाञ्चालराजस्तु विषण्णरूप-
स्तान्पाण्डवानप्रतिविन्दमानः ।
धृष्टद्युम्नं पर्यपृच्छन्महात्मा
क्व सा गता केन नीता च कृष्णा ॥
कच्चिन्न शूद्रेण न हीनजेन
वैश्येन वा करदेनोपपन्ना ।
कच्चित्पदं मूर्ध्नि न पङ्कदिग्धं
कच्चिन्न माला पतिता श्मशाने ॥
कच्चित्स वर्णप्रवरो मनुष्य
उद्रिक्तवर्णोऽप्युत एव कच्चित् ।
कच्चिन्न वामो मम मूर्ध्नि पादः
कृष्णाभिमर्शेन कृतोऽद्य पुत्र ॥
कच्चिन्न तप्स्ये परमप्रतीतः
संयुज्य पार्थेन नरर्षभेण ।
वदस्व तत्त्वेन महानुभाव
कोऽसौ विजेता दुहितुर्ममाद्य ॥
विचित्रवीर्यस्य सुतस्य कच्चि-
त्कुरुप्रवीरस्य ध्रियन्ति पुत्राः ।
कच्चित्तु पार्थेन यवीयसाऽध्य
धनुर्गृहीतं निहतं च लक्ष्यम् ॥ ॥
इति श्रीमन्महाभारते आदिपर्वणि स्वयंवरपर्वणि सप्ताधिकद्विशततमोऽध्यायः ॥ 207 ॥ ॥ समाप्तं स्वयंवरपर्व ॥
1-207-4 अग्रं प्रथममादाय बलिं कुरुष्व भिक्षां च देहि ॥ 1-207-18 ध्रेयन्ति जीवन्ति ॥ सप्ताधिकद्विशततमोऽध्यायः ॥ 207 ॥