अध्यायः 017
अमृतमथनविषये भगवदाज्ञया देवानां विचारः ॥ 1 ॥
सौतिरुवाच ।
एतस्मिन्नेव काले तु भगिन्यौ ते तपोधन ।
अपश्यतां समायान्तमुच्चैः श्रवसमन्तिकात् ॥
यं तु देवगणाः सर्वे हृष्टरूपमपूजयन् ।
मथ्यमानेऽमृते जातमश्वरत्नमनुत्तमम् ॥
अमोघबलमश्वानामुत्तमं जविनां वरम् ।
श्रीमन्तमजरं दिव्यं सर्वलक्षणपूजितम् ॥
शौनक उवाच ।
कथं तदमृतं देवैर्मथितं क्व च शंस मे ।
`कारणं चात्र मथने संजातममृतात्परम् ॥'
यत्र जज्ञे महावीर्यः सोऽश्वराजो महाद्युतिः ॥
सौतिरुवाच ।
ज्वलन्तमचलं मेरुं तेजोराशिमनुत्तमम् ।
आक्षिपन्तं प्रभां भानोः स्वशृङ्गैः काञ्चनोज्ज्वलैः ॥
कनकाभरणं चित्रं देवगन्धर्वसेवितम् ।
अप्रमेयमनाधृष्यमधर्मबहुलैर्जनैः ॥
व्यालैरावारितं घोरैर्दिव्यौषधिविदीपितम् ।
नाकमावृत्य तिष्ठन्तमुच्छ्रयेण महागिरिम् ॥
अगम्यं मनसाप्यन्यैर्नदीवृक्षसमन्वितम् ।
नानापतगसङ्घैश्च नादितं सुमनोहरैः ॥
तस्य शृङ्गमुपारुह्य बहुरत्नाचितं शुभम् ।
अनन्तकल्पमद्वन्द्वं सुराः सर्वे महौजसः ॥
ते मन्त्रयितुमारब्धास्तत्रासीना दिवौकसः ।
अमृताय समागम्य तपोनियमसंयुताः ॥
तत्र नारायणो देवो ब्रह्माणमिदमब्रवीत् ।
चिन्तयत्सु सुरेष्वेवं मन्त्रयत्सु च सर्वशः ॥
देवैरसुरसङ्घैश्च मथ्यतां कलशोदधिः ।
भविष्यत्यमृतं तत्र मथ्यमाने महोदधौ ॥
सर्वौषधीः समावाप्य सर्वरत्नानि चैव ह ।
मन्थध्वयुदधिं देवा वेत्स्यध्वममृतं ततः ॥ ॥
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि सप्तदशोऽध्यायः ॥ 17 ॥
1-17-9 अनन्तकल्पं अनन्तो विष्णुराकाशो वात तत ईषन्न्यूनम् ॥ 1-17-13 वेत्स्यध्वं लप्स्यध्वम् ॥ सप्तदशोऽध्यायः ॥ 17 ॥