अध्यायः 226
पाण्डवानां हास्तिनपुरगमनंप्रति श्रीकृष्णद्रुपदयोरश्यनुज्ञा ॥ 1 ॥ पृथाविदुरसंवादः ॥ 2 ॥ प्रस्थितानां पाण्डवानां द्रुपदेन पारिबर्हदानम् ॥ 3 ॥ प्रत्युद्गमनायागतैः कौरवैः सह पाण्डवानां भीष्मादिवन्दनपुरःसरं गृहप्रवेशः ॥ 4 ॥
द्रुपद उवाच ।
एवमेतन्महाप्राज्ञ यथात्थ विदुराद्य माम् ।
ममापि परमो हर्षः संबन्धेऽस्मिन्कृते प्रभो ॥
गमनं चापि युक्तं स्याद्दृढमेषां महात्मनाम् ।
न तु तावन्मया युक्तमेतद्वक्तुं स्वयं गिरा ॥
यदा तु मन्यते वीरः कुन्तीपुत्रो युधिष्ठिरः ।
भीमसेनार्जुनौ चैव यमौ च पुरुषर्षभौ ॥
रामकृष्णौ च धर्मज्ञौ तदा गच्छन्तु पाण्डवाः ।
एतौ हि पुरुषव्याघ्रावेषां प्रियहिते रतौ ॥
युधिष्ठिर उवाच ।
परवन्तो वयं राजंस्त्वयि सर्वे सहानुगाः ।
यथा वक्ष्यसि नः प्रीत्या तत्करिष्यामहे वयम् ॥
वैशंपायन उवाच ।
ततोऽब्रवीद्वासुदेवो गमनं रोचते मम ।
यथा वा मन्यते राजा द्रुपदः सर्वधर्मवित् ॥
द्रुपद उवाच ।
यथैव मन्यते वीरो दाशार्हः पुरुषोत्तमः ।
प्राप्तकालं महाबाहुः सा बुद्धिर्निश्चिता मम ॥
यथैव हि महाभागाः कौन्तेया मम सांप्रतम् ।
तथैव वासुदेवस्य पाण्डुपुत्रा न संशयः ॥
न तद्ध्यायति कौन्तेयः पाण्डुपुत्रो युधिष्ठिरः ।
यथैषां पुरुषव्याघ्रः श्रेयो ध्यायति केशवः ॥
वैशंपायन उवाच ।
`पृथायास्तु ततो वेश्म प्रविवेश महामतिः ।
पादौ स्पृष्ट्वा पृथायास्तु शिरसा च महीं गतः ॥
दृष्ट्वा तु देवरं कुन्ती शुशोच च मुहुर्मुहुः ।
कुन्त्युवाच ।
वैचित्रवीर्य ते पुत्राः कथंचिज्जीवितास्त्वया ॥
त्वत्प्रसादाज्जतुगृहे मृताः प्रत्यागतास्तथा ।
कूर्मी चिन्तयते पुत्रान्यत्र वा तत्र संमता ॥
चिन्तया वर्धिताः पुत्रा यथा कुशलिनस्तथा ।
तव पुत्रास्तु जीवन्ति त्वद्भक्त्या भरतर्षभ ॥
यथा परभृतः पुत्रानरिष्टा वर्धयेत्सदा ।
तथैव पुत्रास्तु मम त्वया तात सुरक्षिताः ॥
क्लेशास्तु बहवः प्राप्तास्तथा प्राणान्तिका मया ।
अतः परं न जानामि कर्तव्यं ज्ञातुमर्हसि ॥
विदुर उवाच ।
न विनश्यन्ति लोकेषु तव पुत्रा महाबलाः ।
अचिरेणैव कालेन स्वराज्यस्था भवन्ति ते ॥
बान्धवैः सहिताः सर्वे न शोकं कुरु माधवि ।
वैशंपायन उवाच ।'
ततस्ते समनुज्ञाता द्रुपदेन महात्मना ॥
पाण्डवाश्चैव कृष्णश्च विदुरश्च महामतिः ।
आदाय द्रौपदीं कृष्णां कुन्तीं चैव यशस्विनीम् ॥
सविहारं सुखं जग्मुर्नगरं नागसाह्वयम् ।
`सुवर्णकक्ष्याग्रैवेयान्सुवर्णाङ्कुशभूषितान् ॥
जाम्बूनदपरिष्कारान्प्रभिन्नकरटामुखान् ।
अधिष्ठितान्महामात्रैः सर्वशस्त्रसमन्वितान् ॥
सहस्रं प्रददौ राजा गजानां वरवर्मिणाम् ।
रथानां च सहस्रं वै सुवर्णमणिचित्रितम् ॥
चतुर्युजां भानुमच्च पञ्चानां प्रददौ तदा ।
सुवर्णपरिबर्हाणां वरचामरमालिनाम् ॥
जात्यश्वानां च पञ्चाशत्सहस्रं प्रददौ नृपः ।
दासीनामयुतं राजा प्रददौ वरभूषणम् ।
ततः सहस्रं दासानां प्रददौ वरधन्वनाम् ॥
हैमानि शय्यासनबाजनानि
द्रव्याणि चान्यानि च गोधनानि ।
पृथक्पृथक्वैव ददौ स कोटिं
पाञ्चालराजः परमप्रहृष्टः ॥
शिबिकानां शतं पूर्णं वाहान्पञ्चशतं नरान् ॥
एवमेतानि पाञ्चालो जन्यार्थे प्रददौ धनम् ।
हरणं चापि पाञ्चाल्या ज्ञातिदेयं च सोमकः ॥
धृष्टद्युम्नो ययौ तत्र भगिनीं गृह्य भारत ।
नानद्यमानो बहुशस्तूर्यघोषैः सहस्रशः ॥'
श्रुत्वा चोपस्थितान्वीरान्धृतराष्ट्रोऽम्बिकासुतः ।
प्रतिग्रहाय पाण्डूनां प्रेषयामास कौरवान् ॥
विकर्णं च महेष्वासं चित्रसेनं च भारत ।
द्रोणं च परमेष्वासं गौतमं कृपमेव च ॥
तैस्तैः परिवृताः शूरैः शोभमाना महारथाः ।
नगरं हास्तिनपुरं शनैः प्रविविशुस्तदा ॥
`पाण्डवानागताञ्छ्रुत्वा नागरास्तु कुतूहलात् ।
मण्डयाञ्चक्रिरे तत्र नगरं नागसाह्वयम् ॥
मुक्तपुष्पावकीर्णं तु जलसिक्तं तु सर्वतः ।
धूपितं दिव्यधूपेन मङ्गलैश्चाभिसंवृतम् ॥
पताकोच्छ्रितमाल्यं च पुरमप्रतिमं बभौ ।
शङ्खभेरीनिनादैश्च नानावादित्रनिस्वनैः ॥'
कौतूहलेन नगरं पूर्यमाणमिवाभवत् ।
यत्र ते पुरुषव्याघ्राः शोकदुःखसमन्विताः ॥
`निर्गताश्च पुरात्पूर्वं धृतराष्ट्रप्रबाधिताः ।
पुनर्निवृत्ता दिष्ट्या वै सह मात्रा परन्तपाः ॥
इत्येवमीरिता वाचो जनैः प्रियचिकीर्षुभिः ।'
तत उच्चावचा वाचः प्रियाः सर्वत्र भारत ॥
उदीरितास्तदाऽशृण्वन्पाण्डवा हृदयंगमाः ।
पौरा ऊचुः
अयं स पुरुषव्याघ्रः पुनरायाति धर्मवित् ॥
यो नः स्वानिव दायादान्धर्मेण परिरक्षति ।
अद्य पाण्डुर्महाराजो वनादिव मनःप्रियम् ॥
आगतश्चैवमस्माकं चिकीर्षन्नात्र संशयः ।
किं न्वद्य सुकृतं कर्म सर्वेषां नः प्रियं परम् ॥
यन्नः कुन्तीसुता वीरा भर्तारः पुनरागताः ।
यदि दत्तं यदि हुतं यदि वाप्यस्ति नस्तपः ।
तेन तिष्ठन्तु नगरे पाण्डवाः शरदां शतम् ॥
ततस्ते धृतराष्ट्रस्य भीष्मस्य च महात्मनः ।
अन्येषां च तदर्हाणां चक्रुः पादाभिवन्दनम् ॥
पृष्टास्तु कुशलप्रश्नं सर्वेण नगरेण ते ।
समाविशन्त वेश्मानि धृतराष्ट्रस्य शासनात् ॥ ॥
इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलाभपर्वणि षड्विंशत्यधिकद्विशततमोऽध्यायः ॥ 226 ॥