अध्यायः 019
देवानाममृतपानं ॥ 1 ॥ देवरूपेणामृतं पिबतो राहोः शिरश्छेदनं ॥ 2 ॥ देवदैत्ययोर्युद्धं । तत्र दैत्यपराजयः ॥ 3 ॥
सौतिरुवाच ।
अथावरणमुख्यानि नानाप्रहरणानि च ।
प्रगृह्याभ्यद्रवन्देवान्सहिता दैत्यदानवाः ॥
ततस्तदमृतं देवो विष्णुरादाय वीर्यवान् ।
जहार दानवेन्द्रेभ्यो नरेण सहितः प्रभुः ॥
ततो देवगणाः सर्वे पपुस्तदमृतं तदा ।
विष्णोः सकाशात्संप्राप्य संभ्रमे तुमुले सति ॥
`पाययत्यमृतं देवान्हरौ बाहुबलान्नरः ।
निरोधयति चापेन दूरीकृत्य धनुर्धरान् ।
ये येऽमृतं पिबन्ति स्म ते ते युद्ध्यन्ति दानवैः;' ॥
ततः पिबत्सु तत्कालं देवेष्वमृतमीप्सितम् ।
राहुर्विबुधरूपेण दानवः प्रापिबत्तदा ॥
तस्य कण्ठमनुप्राप्ते दानवस्यामृते तदा ।
आख्यातं चन्द्रसूर्याभ्यां सुराणां हितकाम्यया ॥
ततो भगवता तस्य शिरश्छिन्नमलंकृतम् ।
चक्रायुधेन चक्रेण पिबतोऽमृतमोजसा ॥
तच्छैलशृह्गप्रङ्गिमं दानवस्य शिरो महत् ।
`चक्रेणोत्कृत्तमपतच्चालयद्वसुधातलम् ॥'
चक्रच्छिन्नं खमुत्पत्य ननादातिभयंकरम् ।
तत्कबन्धं पपातास्य विस्फुरद्धरणीतले ॥
`त्रयोदश सहस्राणि चतुरश्रं समन्ततः ।
सपर्वतवनद्वीपां दैत्यस्याकम्पयन्महीम् ॥
ततो वैरविनिर्बन्धः कृतो राहुमुखेन वै ।
शाश्वतश्चन्द्रसूर्याभ्यां ग्रसत्यद्यापि चैव तौ ॥
विहाय भगवांश्चापि स्त्रीरूपमतुलं हरिः ।
नानाप्रहरणैर्भीमैर्दानवान्तमकम्पयत् ॥
ततः प्रवृत्तः संग्रामः समीपे लवणाम्भसः ।
सुराणामसुराणां च सर्वघोरतरो महान् ॥
प्रासाश्च विपुलास्तीक्ष्णा न्यपतन्त सहस्रशः ।
तोमराश्च सुतीक्ष्णाग्राः शस्त्राणि विविधानि च ॥
ततोऽसुराश्चक्रभिन्ना वमन्तो रुधिरं बहु ।
असिशक्तिगदारुग्णा निपेतुर्धरणीतले ॥
छिन्नानि पट्टिशैश्चैव शिरांसि युधि दारुणैः ।
तप्तकाञ्चनमालीनि निपेतुरनिशं तदा ॥
रुधिरेणानुलिप्ताङ्गा निहताश्च महासुराः ।
अद्रीणामिव कूटानि धातुरक्तानि शेरते ॥
आहाकारः समभवत्तत्र तत्र सहस्रशः ।
अन्योन्यंछिन्दतां शस्त्रैरादित्ये लोहितायति ॥
परिघैरायसैस्तीक्ष्णैः सन्निकर्षे च मुष्टिभिः ।
निघ्नतां समरेऽन्योन्यं शब्दो दिवमिवास्पृशत् ॥
छिन्धिभिन्धि प्रधाव त्वं पातयाभिसरेति च ।
व्यश्रूयन्त महाघोराः शब्दास्तत्र समन्ततः ॥
एवं सुतुमुले युद्धे वर्तमाने महाभये ।
नरनारायणौ देवौ समाजग्मतुराहवम् ॥
तत्र दिव्यं धनुर्दृष्ट्वा नरस्य भगवानपि ।
चिन्तयामास तच्चक्रं विष्णुर्दानवसूदनम् ॥
ततोऽम्बराच्चिन्तितमात्रमागतं
महाप्रभं चक्रममित्रतापनम् ।
विभावसोस्तुल्यमकुण्ठमण्डलं
सुदर्शनं संयति भीमदर्शनम् ॥
तदागतं ज्वलितहुताशनप्रभं
भयंकरं करिकरबाहुरच्युतः ।
मुमोच वै प्रबलवदुग्रवेगवा-
न्महाप्रभं परनगरावदारणम् ॥
तदन्तकज्वलनसमानवर्चसं
पुनःपुनर्न्यपतत वेगवत्तदा ।
विदारयद्दितिदनुजान्सहस्रशः
करेरितं पुरुषवरेण संयुगे ॥
दहत्क्वचिज्ज्वलन इवावलेलिह-
त्प्रसह्य तानसुरगणान्न्यकृन्तत ।
प्रवेरितं वियति मुहुः क्षितौ तथा
पपौ रणे रुधिरमथो पिशाचवत् ॥
तथाऽसुरा गिरिभिरदीनचेतसो
मुहुर्मुहुः सुरगणमार्दयंस्तदा ।
महाबला विगलितमेघवर्चसः
सहस्रशो गगनमभिप्रपद्यह ॥
अथाम्बराद्भयजननाः प्रपेदिरे
सपादपा बहुविधमेघरूपिणः ।
महाद्रयः परिगलिताग्रसानवः
परस्परं द्रुतमभिहत्य सस्वनाः ॥
ततो मही प्रविचलिता सकानना
महाद्रिपाताभिहता समन्ततः ।
परस्परं भृशमभिगर्जतां मुहू
रणाजिरे भृशमभिसंप्रवर्तिते ॥
नरस्ततो वरकनकाग्रभूषणै-
र्महेषुभिर्गगनपथं समावृणोत् ।
विदारयन्गिरिशिखराणि पत्रिभि-
र्महाभयेऽसुरगणविग्रहे तदा ॥
ततो महीं लवणजलं च सागरं
महासुराः प्रविविशुरर्दिताः सुरैः ।
वियद्गतं ज्वलितहुताशनप्रभं
सुदर्शनं परिकुपितं निशाम्य ते ॥
ततः सुरैर्विजयमवाप्य मन्दरः
स्वमेव देशं गमितः सुपूजितः ।
विनाद्य खं दिवमपि चैव सर्वश-
स्ततो गताः सलिलधरा यथागतम् ॥
ततोऽमृतं सुनिहितमेव चक्रिरे
सुराः पुरां मुदमभिगम्य पुष्कलाम् ।
ददो च तं निधिममृतस्य रक्षितुं
किरीटिने बलभिदथामरैः सह ॥ ॥
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि एकोनविंशोऽध्यायः ॥ 19 ॥
1-19-1 आवरणमुख्यानि कवचाग्र्याणि ॥ 1-19-3 संभ्रमे उभयेषाममृतादरे सति । सङ्ग्रामे इति पाठान्तरं ॥ 1-19-26 प्रवेरितं प्रेरितं ॥ 1-19-27 विगलितमेघाः रिक्तमेघाः ॥ 1-19-32 सलिलधराः अमृतभृतो देवाः ॥ 1-19-33 किरीटिने नराय ॥ एकोनविंशोऽध्यायः ॥ 19 ॥