अध्यायः 243
कृष्णरथमास्थाय सुभद्रयासह अर्जुनस्य खाण्डवप्रस्थं गन्तुं यत्नः ॥ 1 ॥
वैशंपायन उवाच ।
वृष्म्यन्धकपुरात्तस्मादपयातुं धनञ्जयः ।
विनिश्चित्य तया सार्धं सुभद्रामिदमब्रवीत् ॥
द्विजानां गुणमुख्यानां यथार्हं प्रतिपादय ।
भोज्यैर्भक्ष्यैश्च कामैश्च स्वपुरीं प्रतियास्यताम् ॥
आत्मनश्च समुद्दिश्य महाव्रतसमापनम् ।
गच्छ भद्रे स्वयं तूर्णं महाराजनिवेशनम् ॥
तेजोबलजवोपेतैः शुक्लैर्हयवरोत्तमैः ।
वाजिभिः शैव्यसुग्रीवमेघपुष्पबलाहकैः ॥
युक्तं रथवरं तूर्णमिहानय सुसत्कृतम् ।
व्रतार्थमिति भाषित्वा सखीभिः सुभगे सह ॥
क्षिप्रमादाय पर्येहि सह सर्वायुधेन च ।
अनुकर्षान्तपताकाश्च तूणीरांश्च धनूंषि च ॥
सर्वान्रथवरे स्थाप्य सोत्सेधाश्च महागदाः ॥
वैशंपायन उवाच ।
अर्जुनेनैवमुक्ता सा सुभद्रा भद्रभाषिणी ।
जगाम नृपतेर्वेश्म सखीभिः सहिता तदा ॥
व्रतार्थमिति तत्रस्थान्रक्षिणो वाक्यमब्रवीत् ।
रथेनानेन यास्यामि महाव्रतसमापनम् ॥
शैब्यसुग्रीवयुक्तेन सायुधेनैव शार्ङ्गिणः ।
रथेन रमणीयेन प्रयास्यामि व्रतार्थिनी ॥
सुभध्रयैवमुक्ते तु जनाः प्राञ्जलयोऽभवन् ।
योजयित्वा रथवरं कल्याणैरभिभाष्य ताम् ॥
यथोक्तं सर्वमारोप्य आयुधानि च भामिनी ।
क्षिप्रमादाय कल्याणी सुभद्राऽर्जुनमब्रवीत् ॥
रथोऽयं रथिनां श्रेष्ठ आनीतस्तव शासनात् ।
स त्वं याहि यथाकामं कुरून्कौरवनन्दन ॥
वैशंपायन उवाच ।
निवेद्य तु रथं भर्तुः सुभद्रा भद्रसंमता ।
ब्राह्मणानां तदा हृष्टा ददौ सा विविधं वसु ॥
स्नेहवन्ति च भोज्यानि प्रददावीप्सितानि च ।
यथाकामं यथाश्रद्धं वस्त्राणि विविधानि च ॥
तर्पिता विविधैर्भोज्यैस्तान्यवाप्य वसूनि च ।
ब्राह्मणाः स्वगृहं जग्मुः प्रयुज्य परमाशिषः ॥
सुभद्रया तु विज्ञप्तः पूर्वमेव धनञ्जयः ।
अभीशुग्रहणे पार्थ न मेऽस्ति सदृशो भुवि ॥
तस्मात्सा पूर्वमारुह्य रश्मीञ्जग्राह माधवी ।
सोदरा वासुदेवस्य कृतस्वस्त्ययना हयान् ॥
व्यत्ययित्वा तु तल्लिङ्गं यतिवेषं धनञ्जयः ।
आमुच्य कवचं वीरः समुच्छ्रितमहद्धनुः ॥
आरुरोह रथश्रेष्ठं शुक्लवासा धनञ्जयः ।
महेन्द्रदत्तं मुकुटं तथैवाभरणानि च ॥
अलङ्कृत्य तु कौन्तेयः प्रयातुमुपचक्रमे ।
ततः कन्यापुरे घोषस्तुमुलः समपद्यत ॥
दृष्ट्वा नववरं पार्थं बाणखड्गधनुर्धरम् ।
अभीशुहस्तां सुश्रोणीमर्जुनेन रथे स्थिताम् ॥
ऊचुः कन्यास्तदा यान्तीं वासुदेवसहोदराम् ।
सर्वकामसमृद्धा त्वं सुभद्रे भद्रभाषिणि ॥
वासुदेवप्रियं लब्ध्वा भर्तारं वीरमर्जुनम् ।
सर्वसीमन्तिनीनां त्वां श्रेष्ठां कृष्णसहोदरीम् ॥
मन्यामहे महाभागे सुभद्रे भद्रभाषिणि ।
यस्मात्सर्वमनुष्याणां श्रेष्ठो भर्ता तवार्जुनः ॥
उपपन्नस्त्वया वीरः सर्वलोकमहारथः ।
हे प्रयाहि गृहान्भद्रे सुहृद्भिः संगमोऽस्तु ते ॥
वैशंपायन उवाच ।
एवमुक्ता प्रहृष्टाभिः सखीभिः प्रतिनन्दिता ।
भद्रा भद्रजवोपेतानश्वान्पुनरचोदयत् ॥
पार्श्वे चामरहस्ता सा सखी तस्याङ्गनाऽभवत् ।
ततः कन्यापुरद्वारात्सघोषादभिनिःसृतम् ॥
ददृशुस्तं रथश्रेष्ठं जना जीमूतनिस्वनम् ।
सुभद्रासङ्गृहीतस्य रथस्य महतः स्वनम् ॥
मेघस्वनमिवाकाशे शुश्रुवुः पुरवासिनः ।
सुभद्रया तु संपन्ने तिष्ठन्रथवरेऽर्जुनः ॥
प्रबभौ च तयोपेतः कैलास इव गङ्गया ।
पार्थः सुभद्रासहितो विरराज महारथः ॥
विराजते यथा शक्रो राजञ्शच्या समन्वितः ।
सुभद्रां प्रेक्ष्य पार्थेन ह्रियमाणां यशस्विनीम् ॥
चक्रुः किलकिलाशब्दानासाद्य बहवो जनाः ।
दाशार्हाणां कुलस्य श्रीः सुभद्रा मद्रभाषिणी ॥
अभिकामा सकामेन पार्थेन सह गच्छति ।
अथापरे तु संक्रुद्धा गृह्णीत घ्नत माचिरम् ॥
इति संवार्य शस्त्राणि ववर्षुरभितो दिशम् ।
इति संभाषमाणानां स नादः सुमहानभूत् ॥
स तेन जनघोषेण वीरो गज इवार्दितः ।
ववर्ष शरवर्षाणि न तु कंचन रोषयत् ॥
मुमोच निशितान्बाणान्दीप्यमानान्स्वतेजसा ।
प्रासादवरसङ्घेषु हर्म्येषु भवनेषु च ॥
क्षोभयित्वा पुरश्रेष्ठं गरुत्मानिव सागरम् ।
प्रेक्षन्रैवकतद्वारं निर्ययौ भरतर्षभः ॥ ॥
इति श्रीमन्महाभारते आदिपर्वणि सुभद्राहरणपर्वणि त्रिचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 243 ॥