अध्यायः 254
(अथ मयदर्शनपर्व ॥ 19 ॥)
देवेषु पराजितेषु अशरीरवाणीश्रवणेन इन्द्रस्य निवृत्तिः ॥ 1 ॥ पलायमानं मयं हन्तुमुद्युक्ते श्रीकृष्णे आत्मानं शरणागतस्य मयस्य अर्जुनेनाभयदानम् ॥ 2 ॥ खाण्डवदाहेऽपि अश्वसेनादीनामदाहस्य वैशंपायनेन कथनम् ॥ 3 ॥
वैशंपायन उवाच ।
तथा शैलनिपातेन भीषिताः खाण्डवालयाः ।
दानवा राक्षसा नागास्तरक्ष्वृक्षवनौकसः ॥
द्विपाः प्रभिन्नाः शार्दूलाः सिंहाः केसरिणस्तथा ।
मृगाश्च महिषाश्चैव शतशः पक्षिणस्तथा ॥
समुद्विग्ना विससृपुस्तथान्या भूतजातयः ।
तं दावं समुदैक्षन्त कृष्णौ चाभ्युद्यतायुधौ ॥
उत्पातनादशब्देन त्रासिता इव चाभवन् ।
ते वनं प्रसमीक्ष्याथ दह्यमानमनेकधा ॥
कृष्णमभ्युद्यतास्त्रं च नादं मुमुचुरुल्बणम् ।
तेन नादेन रौद्रेण नादेन च विभावसोः ॥
ररास गगनं कृत्स्नमुत्पातजलदैरिव ।
ततः कृष्णो महाबाहुः स्वतेजोभास्वरं महत् ॥
चक्रं व्यसृजदत्युग्रं तेषां नाशाय केशवः ।
तेनार्ता जातयः क्षुद्राः सदानवनिशाचराः ॥
निकृत्ताः शतशः सर्वा निपेतुरनलं क्षणात् ।
तत्रादृश्यन्त ते दैत्याः कृष्णचक्रविदारिताः ॥
वसारुधिरसंपृक्ताः सन्ध्यायामिव तोयदाः ।
पिशाचान्पक्षिणो नागान्पशूंश्चैव सहस्रशः ॥
निघ्नंश्चरति वार्ष्णेयः कालवत्तत्र भारत ।
क्षिप्तं क्षिप्तं पुनश्चक्रं कृष्णस्यामित्रघातिनः ॥
छित्त्वानेकानि सत्वानि पाणिमेति पुनः पुनः ।
तथा तु निघ्नतस्तस्य पिशाचोरगराक्षसान् ॥
बभूव रूपमत्युग्रं सर्वभूतात्मनस्तदा ।
समेतानां च सर्वेषां दानवानां च सर्वशः ॥
विजेता नाभवत्कश्चित्कृष्णपाण्डवयोर्मृधे ।
तयोर्बलात्परित्रातुं तं च दावं यदा सुराः ॥
नाशक्नुवञ्शमयितुं तदाऽभूवन्पराङ्मुखाः ।
शतक्रतुस्तु संप्रेक्ष्य विमुखानमरांस्तथा ॥
बभूव मुदितो राजन्प्रशंसन्केशवार्जुनौ ।
निवृत्तेष्वथ देवेषु वागुवाचाशरीरिणी ॥
शतक्रतुं समाभाष्य महागम्भीरनिःस्वना ।
न ते सखा सन्निहितस्तक्षको भुजगोत्तमः ॥
दाहकाले खाण्डवस्य कुरुक्षेत्रं गतो ह्यसौ ।
न च शक्यौ युधा जेतुं कथंचिदपि वासव ॥
वासुदेवार्जुनावेतौ निबोध वचनान्मम ।
नरनारायणावेतौ पूर्वदेवौ दिवि श्रुतौ ॥
भवानप्यभिजानाति यद्वीर्यौ यत्पराक्रमौ ।
नैतौ शक्यौ दुराधर्षौ विजेतुमजितौ युधि ॥
अपि सर्वेषु लोकेषु पुराणावृषिसत्तमौ ।
पूजनीयतमावेतावपि सर्वैः सुरासुरैः ॥
यक्षराक्षसगन्धर्वनरकिन्नरपन्नगैः ।
तस्मादितः सुरैः सार्धं गन्तुमर्हसि वासव ॥
दिष्टं चाप्यनुपश्यैतत्खाण्डवस्य विनाशनम् ।
इति वाक्यमुपश्रुत्य तथ्यमित्यमरेश्वरः ॥
क्रोधामर्षौ समुत्सृज्य संप्रतस्थे दिवं तदा ।
तं प्रस्थितं महात्मानं समवेक्ष्य दिवौकसः ॥
सहिताः सेनया राजन्ननुजग्मुः पुरन्दरम् ।
देवराजं तदा यान्तं सह देवैरवेक्ष्य तु ॥
वासुदेवार्जुनौ वीरौ सिंहनादं विनेदतुः ।
देवराजे गते राजन्प्रहृष्टौ केशवार्जुनौ ॥
निर्विशङ्कं वनं वीरौ दाहयामासतुस्तदा ।
स मारुत इवाभ्राणि नाशयित्वाऽर्जुनः सुरान् ॥
व्यधमच्छरसङ्घातैर्देहिनः खाण्डवालयान् ।
न च स्म किंचिच्छक्नोति भूतं निश्चरितुं ततः ॥
संछिद्यमानमिषुभिरस्यता सव्यसाचिना ।
नाशक्नुवंश्च भूतानि महान्त्यपि रणेऽर्जुनम् ॥
निरीक्षितुममोघास्त्रं योद्धुं चापि कुतो रणे ।
शतं चैकेन विव्याध शतेनैकं पतत्रिणाम् ॥
व्यसवस्तेऽपतन्नग्नौ साक्षात्कालहता इव ।
न चालभन्त ते शर्म रोधःसु विषमेषु च ॥
पितृदेवनिवासेषु सन्तापश्चाप्यजायत ।
भूतसङ्घाश्च बहवो दीनाश्चक्रुर्महास्वनम् ॥
रुरुदुर्वारणाश्चैव तथा मृगतरक्षवः ।
तेन शब्देन वित्रेसुर्गङ्गोदधिचरा झषाः ॥
विद्याधरगणाश्चैव ये च तत्र वनौकसः ।
न त्वर्जुनं महाबाहो नापि कृष्णं जनार्दनम् ॥
निरीक्षितुं वै शक्नोति कश्चिद्योद्धुं कुतः पुनः ।
एकायनगता येऽपि निष्पेतुस्तत्र केचन ॥
राक्षसा दानवा नागा जघ्ने चक्रेण तान्हरिः ।
ते तु भिन्नशिरोदेहाश्चक्रवेगाद्गतासवः ॥
पेतुरन्ये महाकायाः प्रदीप्ते वसुरेतसि ।
समांसरुधिरौधैश्च वसाभिश्चापि तर्पितः ॥
उपर्याकाशगो भूत्वा विधूमः समपद्यत ।
दीप्ताक्षो दीप्तजिह्वश्च संप्रदीप्तमहाननः ॥
दीप्तोर्ध्वकेशः पिङ्गाक्षः पिबन्प्राणभृतां वसाम् ।
तां स कृष्णार्जुनकृतां सुधां प्राप्य हुताशनः ॥
बभूव मुदितस्तृप्तः परां निर्वृतिमागतः ।
तथाऽसुरं मयं नाम तक्षकस्य निवेशनात् ॥
विप्रद्रवन्तं सहसा ददर्श मधुसूदनः ।
तमग्निः प्रार्थयामास दिधक्षुर्वातसारथिः ॥
शरीरवाञ्जटी भूत्वा नदन्निव बलाहकः ।
विज्ञाय दानवेन्द्राणां मयं वै शिल्पिनां वरम् ॥
जिघांसुर्वासुदेवस्तं चक्रमुद्यम्य धिष्ठितः ।
स चक्रमुद्यतं दृष्ट्वा दिधक्षन्तं च पावकम् ॥
अभिधावार्जुनेत्येवं मयस्त्राहीति चाब्रवीत् ।
तस्य भीतस्वनं श्रुत्वा मा भैरिति धनंजयः ॥
प्रत्युवाच मयं पार्थो जीवयन्निव भारत ।
तं न भेतव्यमित्याह मयं पार्थो दयापरः ॥
तं पार्थेनाभये दत्ते नमुचेर्भ्रातरं मयम् ।
न हन्तुमैच्छद्दाशार्हः पावको न ददाह च ॥
तद्वनं पावको धीमान्दिनानि दश पञ्च च ।
ददाह कृष्णपार्थाभ्यां रक्षितः पाकशासनात् ॥
तस्मिन्वने दह्यमाने षडग्निर्न ददाह च ।
अश्वसेनं मयं चैव चतुरः शार्ङ्गकांस्तथा ॥ ॥
इति श्रीमन्महाभारते आदिपर्वणि मयदर्शनपर्वणि चतुःपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 254 ॥