अध्यायः 003
तत्रैवावस्थानपरीक्षया परितुष्टेषु यमेन्द्रादिषु
युधिष्ठिरसमीपमुपागतेषु तद्दृष्टपूर्वनरकादीनां क्षणेनान्तर्धानम् ॥ 1 ॥
धर्मेण युधिष्ठिरंप्रति सप्रशंसनं तद्दृष्टनरकस्य
परीक्षणायेन्द्रमायासृष्टत्वकथनम् । 2 ॥ ततो युधिष्ठिरेण
गङ्गायामवागाहनान्मानुषशरीरपरित्यागपूर्वकं दिव्यशरीरपरिग्रहणेन महर्ष्यादिभिः
स्तूयमानेन सता सहदेवैर्भ्रात्राद्यधिष्ठितदिव्यस्थानगमनम् ॥ 3 ॥
वैशम्पायन उवाच ।
स्थिते मुहूर्तं पार्थे तु धर्मराजे युधिष्ठिष्ठिरे ।
आजग्मुस्तत्र कौरव्यं देवाः शक्रपुरोगमाः ॥
स च विग्रहवान्धर्मो राजानं संपरीक्ष्य तम् ।
तत्राजगाम यत्रासौ कुरुराजो युधिष्ठिरः ॥
तेषु भासुरदेहेषु पुण्याभिजनकर्मसु ।
समागतेषु देवेषु व्यगमत्तत्तमो नृप ॥
नादृश्यन्त च तास्तत्र यातनाः पापकर्मणाम् ।
नदी वैतरणी चैव कूटशाल्मलिना सह ॥
लोहकुंभ्यः शिलाश्चैव नादृश्यन्त भयानकाः ।
विकृतानि शरीराणि यानि तत्र समन्ततः ॥
ददर्श राजा कौरव्यस्तान्सर्वान्सुमहाप्रभान् ॥
ततो वायुः सुखस्पर्शः पुण्यगन्धवहः शुचिः ।
ववौ देवसमीपस्थः शीतलोऽतीव भारत ॥
मरुतः सह शक्रेण वसवश्चाश्विनौ सह ।
साध्या रुद्रास्तथाऽऽदित्या ये चान्येऽपिदिवौकसः ।
सर्वे तत्र समाजग्मुः सिद्धाश्च परमर्षयः ।
यत्र राजा महातेजा धर्मपुत्रः स्थितोऽभवत् ॥
ततः शक्रः सुरपतिः श्रिया परमया युतः ।
युधिष्ठिरमुवाचेदं सान्त्वपूर्वमिदं वचः ॥
युधिष्ठिर महाबाहो प्रीता देवगणास्त्वया ।
एह्येहि पुरुषव्याघ्र कृतमेतावता विभो ॥
सिद्धिः प्राप्ता महाबाहो लोकाश्चाप्यक्षयास्तव ।
भ्रातॄणां सुहृदां चैव गतिर्नित्या सुपूजिता ॥
न च मन्युस्त्वया कार्यः शृणु चेदं वचो मम ।
अवश्यं नरकस्तात द्रष्टव्यः सर्वराजभिः ॥
शुभानामनशुभानां च द्वौ राशी पुरुषर्षभ ।
यः पूर्वं सुकृतं भुङ्क्ते पश्चान्निरयमेति सः ॥
पूर्वं नरकभाग्यस्तु पश्चात्स्वर्गमुपैति सः ।
भूयिष्ठं पापकर्मा यः स पूर्वं स्वर्गमश्नुते ॥
`भूयिष्ठशुभकर्मा त्वमल्पजिह्मतयाऽच्युत ।'
तेन त्वमेवं गमितो मया श्रेयोर्थिना नृप ॥
व्याजेन हि त्वया द्रोण उपचीर्णः सुतं प्रति ।
व्याजेनैव ततो राजन्दर्शितो नरकस्तव ॥
यथैव त्वं तथा भीमस्तथा पार्थो यमौ तथा ।
द्रौपदी च तथा कृष्णा व्याजेन नरकं गताः ।
आगच्छ नरशार्दूल मुक्तास्ते चैव कल्मषात् ॥
स्वपक्ष्याश्चैव ये तुभ्यं पार्थिवा निहता रणे ।
सर्वे स्वर्गमनुप्राप्तास्तान्पश्य भरतर्षभ ॥
कर्णश्चैव महेष्वासः सर्वशस्त्रभृतांवरः ।
स गतः परमां सिद्धिं यदर्थं परितप्यसे ॥
तं पश्य पुरुषव्याघ्रमादित्यतनयं विभो ।
स्वस्थानस्थं महाबाहो जहि शोकं नरर्षभ ॥
भ्रातॄन्पुत्रांस्तथा पश्य स्वपक्ष्यांश्चैव पार्थिवान् ।
स्वंस्वं स्थानमनुप्राप्तान्व्येतु ते मानसो ज्वरः ॥
कृच्छ्रं पूर्वं चानुभूय इतःप्रभृति कौरव ।
विहारस्व मया सार्धं गतशोको निरामयः ॥
कर्मणां तात पुण्यानां ज्ञानानां तपसां स्वयम् ।
दानानां च महाबाहो फलं प्राप्नुहि पार्थिवः ॥
अद्य त्वां देवगन्दर्वा दिव्याश्चाप्सरसो दिवि ।
उपसेवन्तु कल्याणं विरजंबरभूषणाः ॥
राजसूयजितां लोकानश्वमेधभिनिर्मितान् ।
प्राप्नुहि त्वं महाबाहो तपसश्च महाफलम् ॥
उपर्युपरि राज्ञां हि तव लोकाः युधिष्टिर ।
हरिश्चन्द्रमसः पार्थ येषु त्वं विहरिष्यसि ॥
मान्धाता यत्र राजर्षिर्यत्र राजा भगीरथः ।
दौष्यन्तिर्यत्र भरतस्तत्र त्वं विहरिष्यसि ॥
एषा देवनदी पुण्या पार्थ त्रैलोक्यपावनी ।
आकाशगङ्गा राजेन्र्र तत्राप्लुत्य गमिष्यसि ॥
अत्र स्नातस्य भावस्ते मानुषो विगमिष्यति ।
गतशोको निरायासो मुक्तवैरो भविष्यसि ॥
एवं ब्रुवति देवेन्द्रे कौरवेन्द्रं युधिष्ठिरम् ।
धर्मो विग्रहवान्साक्षादुवाच सुतमात्मनः ॥
भोभो राजन्महाप्राज्ञ प्रीतोस्मि तव पुत्रक ।
मद्भक्त्या सत्यवाक्यैश्च क्षमया च दमेन च ॥
एषा तृतीया जिज्ञासा तव राजन्कृता मया ।
न शक्यसे चालयितुं स्वभावात्पार्थ हेतुतः ॥
पूर्वं परीक्षितो हि त्वं प्रश्नाद्द्वैतवने मया ।
अरणीसहितस्यार्थे तच्च निस्तीर्णवानसि ॥
सोदर्येषु विनष्टेषु द्रौपद्या तत्र भारत ।
श्वरूपधारिणा तत्र पुनस्त्वं मे परीक्षितः ॥
इदं तृतीयं भ्रातॄणामर्थे यतस्थातुमिच्छसि ।
विशुद्धोसि महाभाग सुखी विगतकल्मषः ॥
न च ते भ्रातरः पार्थ नरकार्हा विशांपतै ।
मायैषा देवराजेन महेन्द्रेणि प्रयोजिता ॥
अवश्यं नरकास्तात द्रष्टव्याः सर्वराजभिः ।
ततस्त्वया प्राप्तमिदं मुहूर्तं दुःखमुत्तमम् ॥
न सव्यसाची भीमो वा यमौ वा पुरुषर्षभौ ।
कर्णो वा सत्यवाक् शूरो नरकार्हाश्चिरं नृप ॥
न कृष्णा राजपुत्री च नरकार्हा कथञ्चन ।
एह्येहि भरतश्रेष्ठ पश्य चेमांस्त्रिलोकगान् ॥
वैशम्पायन उवाच ।
एवमुक्तः स राजर्षिस्तव पूर्वपितामहः ।
जगाम सह धर्मेणि सवैश्च त्रिदिवालयैः ॥
गङ्गां देवनदीं पुण्यां पावनीमृषिसंस्तुताम् ।
अवगाह्य ततो राजा तनुं तत्याज मानुषीम् ॥
ततो विव्यवपुर्भूत्वा धर्मराजो युधिष्ठिरः ।
निर्वैरो गतसंतापो जले तस्मिन्समाप्लुतः ॥
ततो ययौ वृतो देवैः कुरुराजो युधिष्ठिरः ।
धर्मेण सहितो धीमांस्तूयमानो महर्षिभिः ॥
यत्र ते पुरुषव्याघ्राः शूरा विगतमन्यवः ।
पाण्डवा धार्तराष्ट्राश्च स्वानि स्थानानि भेजिरे ॥ ॥
इति श्रीमन्महाभारते स्वर्गारोहणपर्वणि तृतीयोऽध्यायः ॥ 3 ॥
7-3-17 हतः कुञ्जर इति अस्वत्थामवधे द्रोण उपचीर्णो वञ्चितः
गजवाचीशब्दो मनुष्यपरत्वेन ज्ञापित इत्युपचारच्छलेनेत्यर्थः ॥ 7-3-19 तुभ्यं
तव ॥ 7-3-33 जिज्ञासा परीक्षा ॥ 7-3-35 स्वर्गाधिरोहणे द्रौपद्या सह सोदर्येषु
विनष्टेयु सत्सु । श्वरूपदारिणा शुनकरूपिणा ॥ 7-3-44 यत्र ते पाण्डवास्तत्र
देवैः सह ययाविति द्वयो सम्बन्धः ॥
श्रीः