204-b
वासानिम्बपटोल-
त्रिफलाशनयासयोजितो जयति ।
अधिककफाम्लपित्तं
प्रयोजितो गुग्गुलुः क्रमेण ॥ १३ ॥
छिन्नाखदिरयष्ट्याह्वदार्व्यम्भो वा मधुद्रवम् ।
सद्राक्षामभयां खादेत्सक्षौद्रां सगुडां च ताम् ॥ १४ ॥
कटुका सितावलेह्या पटोलविश्वं च क्षौद्रसंयुक्तम् ।
रक्तस्रुतौ च युक्त्या वा खण्डकूष्माण्डकं श्रेष्ठम् ॥ १५ ॥
पटोलधन्याकमहौषधाब्दैः
कृतः कषायो विनिहन्ति शीघ्रम् ।
मन्दानलं पित्तबलासदाह-
च्छर्दिज्वरामानिलशूलरोगान् ॥ १६ ॥
छिन्नोद्भवानिम्बपटोलपत्रं
पलत्रिकं सुक्वथितं सुशीतम् ।
क्षौद्रान्वितं पित्तमनेकरूपं
सुदारुणं हन्ति हि चाम्लपित्तम् ॥ १७ ॥
पटोलत्रिफलानिम्बशृतं मधुयुतं पिबेत् ।
पित्तश्लेष्मज्वरच्छर्दिदाहशूलोपशान्तये ॥ १८ ॥
सिंहास्यामृतभण्डाकी क्वाथं पीत्वा समाक्षिकम् ।
अम्लपित्तं जयेज्जन्तुः कासं श्वासं ज्वरं वमिम् ॥ १९ ॥
वासाघृतं तिक्तघृतं पिप्पलीघृतमेव च ।
अम्लपित्ते प्रयोक्तव्यं गुडकूष्माण्डकं तथा ॥ २० ॥