205-a
पक्तिशूलापहा योगास्तथा खण्डामलक्यपि ।
पिप्पलीमधुसंयुक्ता चाम्लपित्तविनाशिनी ॥ २१ ॥
जम्बीरस्वरसः पीतः सायं हन्त्यम्लपित्तकम् ॥ २२ ॥
गुडपिप्पलिपथ्याभिस्तुल्याभिर्मोदकः कृतः ।
पित्तश्लेष्मापहः प्रोक्तो मन्दमग्निं च दीपयेत् ॥ २३ ॥
हिङ्गु च कतकफलानि
चिञ्चात्वचो घृतं च पुटदग्धम् ।
शमयति तदम्लपित्त-
मम्लभुजो यदि यथोत्तरं द्विगुणम् ॥ २४ ॥
कान्तापात्रे वराकल्को व्युषितोऽभ्यासयोगतः ।
सिताक्षौद्रसमायुक्तः कफपित्तहरः स्मृतः ॥ २५ ॥
एकोंऽशः पञ्चनिम्बानां द्विगुणो वृद्धदारकः ।
शक्तुर्दशगुणो देयः शर्करामधुरीकृतः ॥ २६ ॥
शीतेन वारिणा पीतः शूलं पित्तकफोत्थितम् ।
निहन्ति चूर्णं सक्षौद्रमम्लपित्तं सुदारुणम् ॥ २७ ॥