205-b
आशुभक्तोदकैः पिष्टमभ्रकं तत्र संस्थितम् ॥ २८ ॥
कन्दमाणास्थिसंहारखण्डकर्णरसैरथ ।
तण्डुलीयं च शालिं च कालमारिषजेन च ॥ २९ ॥
वृश्चीरबृहतीभृङ्गलक्षणाकेशराजजैः ।
पेषणं भावनं कुर्यात्पुटं चानेकशो भिषक् ॥ ३० ॥
यावन्निश्चन्द्रकं तत्स्याच्छुद्धिरेवं विहायसः ।
स्वर्णमाक्षिकशालिं च ध्मातं निर्वापितं जले ॥ ३१ ॥
त्रैफलेऽथ विचूर्ण्यैवं लौहं कान्तादिकं पुनः ।
बृहत्पत्रकरीकर्णत्रिफलावृद्धदारजैः ॥ ३२ ॥
माणकन्दास्थिसंहारशृङ्गवेरभवै रसैः ।
दशमूलीमुण्डितिकातालमूलीसमुद्भवैः ॥ ३३ ॥
पुटितं साधुयत्नेन शुद्धिमेवमयो व्रजेत् ।
वशिरं श्वेतवाट्यालं मधुपर्णी मयूरकम् ॥ ३४ ॥
तण्डुलीयं च वर्षाह्वं दत्वाधश्चोर्ध्वमेव च ।
पाक्यं सजीर्णमण्डूरं गोमूत्रेण दिनत्रयम् ॥ ३५ ॥
अन्तर्बाष्पमदग्धं च तथा स्थाप्यं दिनत्रयम् ।
विचूर्णितं शुद्धिरियं लोहकिट्टस्य दर्शिता ॥ ३६ ॥
जयन्त्या वर्धमानस्य आर्द्रकस्य रसेन तु ।
वायस्याश्चानुपूर्व्यैवं मर्दनं रसशोधनम् ॥ ३७ ॥
गन्धकं नवनीताख्यं क्षुद्रितं लौहभाजने ।
त्रिधा चण्डातपे शुष्कं भृङ्गराजरसाप्लुतम् ॥ ३८ ॥
ततो वह्नौ द्रवीभूतं त्वरितं वस्त्रगालितम् ।
यत्नाद्भृङ्गरसे क्षिप्तं पुनः शुष्कं विशुध्यति ॥ ३९ ॥