268-a
११वनकार्पासिकेक्षूणां मूलं सौवीरकेण वा ।
विदारीकन्दं सुरया पिबेद्वा स्तन्यवर्धनम् ॥ ५० ॥
दुग्धेन शालितण्डुलचूर्णपानं विवर्धयेत् ।
स्तन्यं सप्ताहतः क्षीरसेविन्यास्तु न संशयः ॥ ५१ ॥
हरिद्रादिं वचादिं वा पिबेत्स्तन्यविशुद्धये ।
तत्र वातात्मके स्तन्ये दशमूलीजलं पिबेत् ॥ ५२ ॥
पित्तदुष्टेऽमृताभीरुपटोलं निम्बचन्दनम् ।
धात्री कुमारश्च पिबेत्क्वाथयित्वा सशारिवम् ॥ ५३ ॥
कफे वा त्रिफलामुस्ताभूनिम्बं कटुरोहिणीम् ।
धात्री स्तन्यविशुद्ध्यर्थं मुद्गयूषरसाशिनी ॥ ५४ ॥
भार्गीवचादारुपाठाः पिबेत्सातिविषाः शृताः ॥ ५५ ॥
कुक्कुरामञ्जुकामूलं चर्वितमास्ये विधारितं जयति ।
सप्ताहात्स्तनकीलं स्तन्यं चैकान्ततः कुरुते ॥ ५६ ॥
१२शोथं स्तनोत्थितमवेक्ष्य भिषग्विदध्या-
द्यद्विद्रधावभिहितं त्विह भेषजं तु ।