265-b
पाठा लाङ्गलिसिंहास्यमयूरकजटैः पृथक् ॥ १२ ॥
नाभिबस्तिभगालेपात्सुखं नारी प्रसूयते ।
परूषकस्थिरामूललेपस्तद्वत्पृथक्पृथक् ॥ १३ ॥
वासामूले ध्रुवं तद्वत्कटिवद्धे सूते द्रुतम् ।
पाठायास्तु शिफां योनौ या नारी संप्रधारयेत् ॥ १४ ॥
उरःप्रसवकाले च सा सुखेन प्रसूयते ।
तुषाम्बुपरिपिष्टेन मूलेन परिलेपयेत् ॥ १५ ॥
लाङ्गल्याश्चरणौ सूते क्षिप्रमेतेन गर्भिणी ।
आटरूषकमूलेन नाभिबस्तिभगालेपः कर्तव्यः ॥ १६ ॥
तालतरूद्भवमूले मुक्तकच्छे धृते पुंसाम् ।
गृहाम्बुना गेहधूमपानं गर्भापकर्षणम् ॥ १७ ॥
मातुलुङ्गस्य मूलानि मधुकं मधुसंयुतम् ।
घृतेन सह पातव्यं सुखं नारी प्रसूयते ॥ १८ ॥
पुटदग्धसर्पकञ्चुक-
मसृणमसी कुसुमसारसहिताञ्जिताक्षी ।
झटिति विशल्या जायेत
गर्भवती मूढगर्भापि ॥ १९ ॥