270-a
तैलस्य भागमेकं ।
मूत्रस्य द्वौ च शिम्बिदलरसस्य ।
गव्यं पयश्चतुर्गुण
मेवं दत्त्वा पचेत्तैलम् ।
तेनाभ्यङ्गः सततं रोगमनामकाख्यमपहरति ॥ १३ ॥
अर्कतूलकमाविकरोमाण्यादाय केशराजस्य ।
स्वरसेनाक्ते वस्त्रे कृत्वा वर्तिं च तैलाक्ताम् ॥ १४ ॥
तज्जातकज्जलाञ्जितलोचनयुगलोऽप्यलंकृतोबालः ।
कष्टमनामकरोगं क्षपयति भूतादिकं चापि ॥ १५ ॥
चालनिकातलसंस्थितपोतं संप्लाव्य गव्यमूत्रेण ।
ओकोदशालिकायां रजकक्षारोदकस्नानम् ॥ १६ ॥
दासक्रयणश्रावणवरा-
टिकारसेन्द्रपूरिता घृता कण्ठे ।
नलिनीदले च शयनं
सुकष्टमनामकाख्यरोगघ्नम् ॥ १७ ॥
भैषज्यं पूर्वमुद्दिष्टं नराणां यज्ज्वरादिषु ।
देयंतदेव बालानां मात्रा तस्य कनीयसी ॥ १८ ॥
प्रथमे मासि जातस्य शिशोर्भेषजरक्तिका ।
अवलेह्या तु कर्तव्या मधुक्षीरसिताघृतैः ॥ १९ ॥
एकैकां वर्धयेत् तावद्यावत्संवत्सरो भवेत् ।
तदूर्ध्वं मासवृद्धिः स्याद्यावदाषोडशाब्दिकाः ॥ २० ॥