270-b
हरिद्राद्वययष्ट्याह्वसिंहीशक्रयवैः कृतः ।
शिशोर्ज्वरातिसारघ्नः कपायस्तस्य दोषजित् ॥ २१ ॥
घनकृष्णारुणाशृङ्गीचूर्णं क्षौद्रेण संयुतम् ।
शिशोर्ज्वरातिसारघ्नं कासश्वासवमीहरम् ॥ २२ ॥
धातकीबिल्वधन्याकलोध्रेन्द्रयववालकैः ।
लेहः क्षौद्रेण वालानां ज्वरातीसारवान्तिजित् ॥ २३ ॥
रजनीदारुशरलश्रेयसी बृहतीद्वयम् ।
पृश्निपर्णी शताह्वा च लीढं माक्षिकसर्पिषा ॥ २४ ॥
ग्रहणीदीपनं हन्ति मारुतार्तिं सकामलाम् ।
ज्वरातीसारपाण्डुघ्नं बालानां सर्वशोथनुत् ॥ २५ ॥
मिशी कृष्णाञ्जनं लाजा शृङ्गीमरिचमाक्षिकैः ।
लेहः शिशोर्विधातव्यश्छर्दिकासज्वरापहः ॥ २६ ॥