49-b
१३भल्लातकसहस्रार्धं जलद्रोणे विपाचयेत् ।
अष्टभागावशेषं च कषायमवतारयेत् ॥ ५४ ॥
घृतप्रस्थं समादाय कल्पानीमानि दापयेत् ।
त्र्यूषणं पिप्पलीमूलं चित्रको हस्तिपिप्पली ॥ ५५ ॥
हिङ्गु चव्याजमोदा च पञ्चैव लवणानि च ।
द्वौ क्षारौ हपुषा चैव दद्यादर्धपलोन्मितान् ॥ ५६ ॥
दधिकाञ्जिकशुक्तानि स्नेहमात्रासमानि च ।
आर्द्रकस्वरसं चैव सौभाञ्जनरसं तथा ॥ ५७ ॥
तत्सर्वमेकतः कृत्वा शनैर्मृद्वग्निना पचेत् ।
एतदग्निघृतं नाम मन्दाग्नीनां प्रशस्यते ॥ ५८ ॥
अर्शसां नाशनं श्रेष्ठं मूढवातानुलोमनम् ।
कफवातोद्भवे गुल्मे श्लीपदे च दकोदरे ॥ ५९ ॥
शोथं पाण्ड्वामयं कासं ग्रहणीं श्वासमेव च ।
एतान्विनाशयत्याशु सूर्यस्तम इवोदितः ॥ ६० ॥
१४द्वे पञ्चमूले त्रिफलामर्कमूलं शतावरीम् ।
दन्तीं चित्रकमास्फीतां रास्नां पाठां सुधां शठीम् ॥ ६१ ॥
पृथग्दशपलान्भागान्दग्ध्वा भस्म समावपेत् ।
त्रिःसप्तकृत्वस्तद्भस्म जलद्रोणेन गालयेत् ॥ ६२ ॥