47-b
कपित्थबिल्वचाङ्गेरीमरिचाजाजिचित्रकैः ॥ १५ ॥
कफवातहरो ग्राही खण्डो दीपनपाचनः ।
पिप्पलीशृङ्गवेरं च देवदारु सचित्रकम् ॥ १६ ॥
चविकां बिल्वपेशीं चाजमोदां च हरीतकीम् ।
महौषधं यमानीं च धान्यकं मरिचं तथा ॥ १७ ॥
जीरकं चापि हिङ्गुं च काञ्जिकं साधयेद्भिषक् ।
एष शार्दूलको नाम काञ्जिकोऽग्निबलप्रदः ॥ १८ ॥
सिद्धार्थतैलसंभृष्टो दश रोगान् व्यपोहति ।
कासं श्वासमतीसारं पाण्डुरोगं सकामलम् ॥ १९ ॥
आमं च गुल्मशूलं च वातगुल्मं सवेदनम् ।
अर्शांसि श्वयथुं चैव भुक्ते पीते च सात्म्यतः ॥ २० ॥
क्षीरपाकविधानेन काञ्जिकस्यापि साधनम् ।
हिङ्गुभागो भवेदेको वचा च द्विगुणा भवेत् ॥ २१ ॥
पिप्पली त्रिगुणा चैव शृङ्गवेरं चतुर्गुणम् ।
यमानिका पञ्चगुणा षङ्गुणा च हरीतकी ॥ २२ ॥
चित्रकं सप्तगुणितं कुष्टं चाष्टगुणं भवेत् ।
एतद्वातहरं चूर्णं पीतमात्रं प्रसन्नया ॥ २३ ॥
पिबेद्दध्ना मस्तुना वा सुरया कोष्णवारिणा ।
सोदावर्तमजीर्णं च प्लीहानमुदरं तथा ॥ २४ ॥
अङ्गानि यस्य शीर्यन्ते विषं वा येन भक्षितम् ।
अर्शोहरं दीपनं च श्लेष्मघ्नं गुल्मनाशनम् ॥ २५ ॥
कासं श्वासं निहन्त्याशु तथैव यक्ष्मनाशनम् ।
चूर्णमग्निमुखं नाम न क्वचित्प्रतिहन्यते ॥ २६ ॥