65 अस्मिन् त्रिविधेऽपि वस्तुनि सूच्यदृश्ययोः व्यवस्थामुक्त्वा श्राव्यं पश्चाद् वक्ष्यन् सूच्यस्य वस्तुनः सूचनप्रकारं प्रतिपादयति अर्थोपक्षेपकैरित्यादिना ।

तत्र विष्कम्भः—

वृत्तवर्तिष्यमाणानां कथांशानां निदर्शकः ।
संक्षेपार्थस्तु विष्कम्भो मध्यपात्रप्रयोजितः ॥ ५९ ॥

अतीतानां भाविनां च कथावयवानां ज्ञापको मध्यमेन मध्यमाभ्यां वा पात्राभ्यां प्रयोजितो विष्कम्भक इति ।

मध्यपात्रप्रयोजित इति । एनं समासं 446 मध्येन प्रयोजितः मध्याभ्यां वा प्रयोजित इति विगृह्णाति मध्येन मध्याभ्यां वा प्रयोजित इति ।

स द्विविधः—शुद्धः, संकीर्णश्चेत्याह—

एकानेककृतः शुद्धः संकीर्णो नीचमध्यमैः ।

एकेन द्वाभ्यां वा मध्यमपात्राभ्यां शुद्धो भवति । मध्यमाधमपात्रैर्युगपत् प्रयोजितः संकीर्ण इति ।

एकं वा द्वे वा यदा मध्ये एव पात्रे तदा विजातीयसंस्पर्शाभावात् न संकीर्णता भवति । नीचपात्रसंस्पर्शात्तु विजातीयानुप्रवेशात् संभवत्येव । तेन यदा एकेन मध्यमपात्रेण एकेन नीचपात्रेण द्वित्वं भवति तदानीमेव सांकर्यमुक्तमित्याह मध्यमाधमपात्रैरिति । एकस्मिन्नर्थेऽप्युक्तिप्रत्युक्तिक्रमात् प्रतिपाद्यमाने सति सांकर्यम् । तेनाह युगपदिति ।

अथ प्रवेशकः—

तद्वदेवानुदात्तोक्त्या नीचपात्रप्रयोजितः ॥ ६० ॥
  1. madhya is derived by the rule asāṃpratike (Pāṇini IV.3.9) in the sense of utkarṣāpakarṣahīna. And in this context is means a pātra which is neither uttama nor nīca. From the comments of Bh.Nṛ. it seems madhyena madhyābhyāṃ vā should be the reading in the Avaloka. MSS. read madhyamena, etc.