8b
लब्धावकाशा शङ्कापिशाची धूममप्यनुधावेत्, धूमस्यापि स्वागतः कश्चिद् विशेषो
भविष्यति, येनाग्निं विना भविष्यति । ननु यत्नेनानुसरन्तो नोपलभामहे धूमे
स्वगतविशेषलक्षणमुपाधिम् । वज्रे तु पार्थिवेऽवगच्छामो लोहव्यापारणात् ।

तत् तर्हि लोहव्यापारणं प्रवृत्तेऽनुमाने प्रयोजनेन, उत यदृच्छया, आहोस्वित्
जिज्ञासया ? आद्यपक्षे महती प्रयोजनसिद्धिरनुमानादित्यनुमानान्तरमपीदृशमेव
भवतः । यदृच्छया तु न तावान् श्रमः, यावता लेख्यनिश्चयः । भवतु वा तस्याननु
मानम्, अन्यस्य कथम् ? जिज्ञासा तु निरवकाशैव । तथा हि मृत्काष्ठपाषाण
तीक्ष्णभेदेषु पार्थिवेषु कोटिशोऽयःकोटिमज्जनदर्शिनो व्यभिचारस्याप्यदर्शनात् स्वा
भाविकसम्बन्धनिश्चयाल्लेख्यतानुमानेन निरस्तव्यभिचारसंशयस्य क्व तत्पूर्वकजिज्ञासा
वकाशः ? अन्यथा सौधशिखरात् पर्वतनितम्बसंवाहितं धूममप्युपलभ्य भूयोदर्शनेन
स्वाभाविकसम्बन्धबोधवतस्तत्रापि जिज्ञासैव स्यात्, नानुमानम् । ततः सर्वथा
नुमानापसार एव । कतिपयवारसंवादे चान्यदा जाते स्वाभाविकसम्बन्धनिश्चयात्
कालान्तरे धूमादनुमानमन्वेति न यावज्जीवं संवादे पार्थिवतादिवदिति श्लाधनीयप्रज्ञः ।

अथ पार्थिवत्वेऽपि काठिन्यतारतम्यदर्शनात् क्वचिल्लेख्यतानिवृत्तिरपि संभाव्यत
इति भूयस्यपि संवादे पार्थिवत्वाद्यननुमानम्, धूमे तु नाग्निनिरपेक्षतातारतम्योपलम्भ
इति चेत् ? नन्वग्निरपेक्षेतेत्यग्निविच्छेद एव वक्तव्यः । न च यत्रात्यन्तिकविच्छेदो
भावी तत्रावश्यं प्राग्विच्छेदतारतम्यदर्शनं निगडपुरुषवत् । अन्ते तु कतिपयक्षणे
धूमेऽपि भविष्यति, केवलं न पुरुषनिगडवत् पृथक्सिद्धयोर्धूमानलयोः संयोगमात्रम्,
किं तु धूमस्य धूमध्वजादेव जन्मेति नान्तेऽपि विच्छेदशङ्का । तावद्विशेषास्पर्शे तु
शङ्कैव । तस्माद् वह्निविच्छेदिनः स्वरूपस्य धूमे पार्थिवे वा लोहलेख्यताया आहत्या
दर्शनमात्रं भूयो विपर्ययदर्शनं च साधारणमिति नैकनियता स्वाभाविकसंबन्धसिद्धिः,
साध्ये नौपाधिकव्यवस्था चेति समानमनुमानमननुमानं वा ।