9a क्वचिदेकशाखाप्रभवेऽप्यभावशङ्कनात् । तदेवं कस्यचिदर्थान्तरेण
व्याप्तिप्रक्रमे यदि भूयोदर्शनमुपायः, तदा विपक्षादनीक्षामात्रेण निवृत्त्यसिद्धेः, तादृशां
व्यभिचारदर्शनाच्च सन्दिग्धविपक्षव्यावृत्तिकतया नैकान्तिकेन साध्यसाधनं धूमादिः ।
स्वाभाविकादिवादेन तु हृदयलेपनमशुचिनेव परिहार्यम् । डिण्डिकरागमात्रादापाततः
परस्वीकरणमात्रोपयोगिनोऽतिरिक्तस्यार्थस्य प्रतिपादनादिति प्रतिपादितम् ।

तस्माद् भेदे तदुत्पत्तिप्रतीतिरेव व्याप्तिप्रतीतिः । सा च प्रत्यक्षानुपलम्भा
भ्यामेव । भवतु भेदे तदुत्पत्तिप्रतीतिरेव व्याप्तिप्रतीतिः, न तु प्रत्यक्षानुपलम्भाभ्याम्,
वर्तमानक्षणग्रहणनियमात् प्रत्यक्षस्य, अनुपलम्भस्य च तत्स्वभावत्वात् । यच्चाध्य
वसायापेक्षयाशेषसजातीयविशेषत्वमाख्यातमक्षधियः, तत्राप्यध्यवसायो नामानन्तरो
विकल्प एव । ततस्तद्वशेन प्रत्यक्षं सर्वविषयमिति याचितकमण्डनमेतत् । तद्वरमग्नेर्धूम
इति सकलोभयव्यक्तिलक्षणसामान्यद्वयालम्बनो विकल्प एव तद्भावग्राहकः स्वीक्रियताम्,
प्रमाणान्तरं प्रत्यक्षान्तरं वा, अनधिगताधिगमादध्यक्षव्यापारकाले भावाच्चेति चेत् ?
तदप्यसारम्, विकल्पेऽपि हि सर्वविषयत्वमध्यवसायसरणमेव, स्वलक्षणस्फूर्तेरभावात् ।
एकव्यावृत्तच्छायानुकारमात्रेण स्वाकारस्यैव प्रतिभासनात् । तत् कीदृशोऽस्य विशेषः
प्रत्यक्षात् ? केवलं स्वानुरूपानुव्यवसायाद्युत्तरप्रबन्धापेक्षया विकल्पे विषयाध्यवसाय
व्यवस्था । प्रत्यक्षे तु तमपि विकल्पमादायेति भेदः । समस्तवस्तुस्पर्शस्तु नैकत्रापि ।
न चान्योऽस्ति ग्राहकप्रकार इति चर्चितम् ।

तस्मात् संव्यवहारे सिद्धमध्यवसायेनापि विषयव्यवस्थानमपरिहार्यमनु