2a द्वैतपरिग्रहोऽग्रह एव । एकस्यैव स्वभावस्य तथा व्यापारकल्पनं किं
नास्थीयत इत्युक्तप्रायम् ।

नापि तृतीयपक्षोपक्षेपः क्षमः । स्वभावयोस्तावत् कालभेदे यदा भेदो न
तदा अभेदः । अभेदकाले च न भेद इति न कदाचिद् परदोषपरिहारः । तत्र यथा
भिन्नेऽभिन्ने वा वस्तुन्येकान्तभेदाभेदभावीनि पर्यायत्वादीनि कार्याणि न विहन्यन्ते,
तथैव स्वभावयोः कालभेदे न प्राप्नुवन्ति, प्रतिद्वन्द्विनोऽभावात् । न च भाविनैव
निषेधोऽवस्तुत्वात् । अतस्तत्कालकार्यकालभेदः शरणीकरणीयः । तत्र भेदः शब्दान्तर
वृत्तिमाधाय यावत् प्रतिभासभेदमाधातुमुपक्रमते, तावदेवाभेदेनोपनियतता प्रतिबध्यत
इति क एवं न्यायविहस्तो हस्तसमारचितं वस्तु प्रस्तोतुमर्हति साहसैकभुवं भवन्त
मन्तरेण ? स्वभावयोरेव हि कालभेदः स च कस्य वस्तुनस्तावद् दुर्लभः ? न हि स
पश्चाद् भवन् तस्यैव युक्तः, कारणचिन्ताविधुरत्वाच्च तत्रापि प्रत्येकं कालभेदः । न
ह्येकस्वभावप्रतिबद्धत्वे युक्तमेवम् । तत्रापि नियतो गुणदोषाभिमतकार्यकरणक्रमः ।
अनियमेन पुनः प्रपातपतनप्रसङ्गादिति व्यक्तमिष्टकामतामात्रापहृतहृदयो न किञ्चित्
चेतयत इत्युपेक्षामर्हति । न हि तदिच्छातिरिक्तमत्र कारणमाकलयामः । अपि च, यदा
भेदस्य पश्चाद् भेदाभ्युपगमः, तदा पृथगुपलब्धिं बाधमानस्याभेदस्य द्वितीयं कार्यं
केन निवार्यताम् ? भेदेनेति चेत्—न, यद्यन्येनोत्तरकालभाविना, तदास्यापि दोषाङ्ग
निराकरणायापरो मृग्यत इत्यनवस्था । अथ प्राक्तनेन, तस्य यद्येतावती शक्तिः
पश्चादभेदेनोपनीयमानमपृथक्प्रतिभासमेव कथं न बध्नीयात् ? तद् यदि पूर्वापेक्षया
उत्तरस्यापवादकत्वं, पूर्वतरापेक्षया कथं नेति चिन्त्यम् । तस्मात् प्रत्येकमुभयकार्य