1b

॥ नमो बुद्धाय ॥

प्रत्येकपक्षोपनिपातिदूषणपरिजिहीर्षया कैश्चिदाश्रियमाणो भेदाभेदपक्षः परी
क्ष्यते । तत्र किमयमुभयसमुच्चयस्वभावः, तदभावरूपो वा ? अभावोऽपि प्रसज्य
मात्रम्, पर्युदासवृत्त्या वा भावान्तरम् ? तदपि प्रकृतप्रत्यनीकं तृतीयं रूपम्, उत
अप्रकृतमेव किञ्चित् ?

तत्र प्रथमपक्षे यावेव भेदाभेदौ पृथग्दोषजालकवलितौ, तावेवामू एकवस्तु
वर्तिनाविष्येते, तदान्यावेव वा ? तत्त्वे तद्दूषणस्यावश्यमनुवृत्तेर्विफलोऽभ्युपगमः ।
अन्यत्वेऽपि तद्दूषणवद् गुणस्याप्यननुवृत्तेः । अपि नाम भेदपक्षभावि पृथक्प्रतीतिप्रसङ्ग
दूषणमभेदमुपगच्छन् परिहरिष्यामीति भेदेऽप्यभेदस्वीकारस्तत्र भवतः । यदि च स
एवाभेदः पृथगुपलब्धिबाधनोऽधुनाप्युपनीतः, स्यादेवं तत्परिहारः, केवलमेकयोगक्षेम
समावेशात् प्रमाणान्तरावृत्तिमप्याकर्षेत् । ततो यद्यन्यतयैनां नाकर्षेत्, तत एव
पृथगुपलब्धिनिषेधनमपि न साधयेत् । अथाभेदस्य पृथगुपलब्धिबाधैव फलं न
शब्दान्तरावृत्तिस्वाभाव्यात्, तथापि द्वैताभ्युपगमो विफलः । एवं भेदपक्षेऽपि वाच्यम् ।
अथ पृथगुपलब्धिबाधैव फलमभेदस्य, शब्दान्तरावृत्तिनिवृत्तिस्तु भेदस्यैव, तेनापि हि
संभविना स्वकार्यमर्जनीयमेव । एवं भेदस्यापि प्रमाणान्तरापेक्षेव फलं, पृथगुप
लब्धिबाधा त्वभेदस्येति ।

उच्यते । उभयमुभयस्य कार्यं दृष्टं, भेदस्यापि पृथक्प्रकाशप्रसङ्गदोषः,
शब्दान्तरापेक्षा च गुणः । अभेदस्यापि शब्दान्तरापेक्षाप्रसङ्गदोषः, अपृथक्प्रतिभासश्च
गुणः । तत्रेदानीं भेदेन शब्दान्तरवृत्तिमात्रमातन्वता स्थातव्यम् । द्वितीये तु कार्ये
परप्रहारोऽपेक्षितव्यः । अभेदेनापि सह प्रतिभासं सृजता कार्यान्तरे प्रत्यनीकप्रहार
इति किंकृतो विभागः ? भवदभिप्रायानुविधायितया भावानाम्, स्वयमेव वा
गुणदोषयोरनुनयप्रतिघसंभवात्, कालभेदसंभवाद् वा स्वभावयोः कार्याणां च ।
तत्रापि नियतो गुणदोषक्रमोऽनियतो वा ? तत्र प्रथमविकल्पे भेदाभेदयोरन्यतर एव