190
प्रत्यक्षसामर्थ्यदर्शनात् तदेवं विरुद्धस्य परोक्षस्याप्युपलब्धिरनुमानात्मिकाभावमितरस्य
साधयति । यथा नेह शीतं धूमादित्येवं व्यापकविरुद्धकार्योपलब्धिर्द्रष्टव्या । यथा
नेह तुषारं धूमात् । एतच्च संकलय्य प्रयोगकाले व्याख्यानम् ।

वस्तुतस्तु न शीतमग्नेरित्येकः प्रयोगः, यथा न तुषारमग्नेः । व्यापकस्य हि
विरुद्धो विरुद्ध एव । अग्निश्च धूमादिति । शेषमप्येवमूह्यम् ।

यदि कारणादेः स्वभावानुपलब्धिरन्यस्य कारणाद्यनुपलब्धिः पर्युदासरूपा,
कथं तर्हि निरुपाख्येषु, तथा न वक्ता बन्ध्यासुतश्चैतन्याभावादिति ? तत्रापि बुद्धि
प्रतिभासस्यैव चैतन्यवियुक्तत्वेन संवेदनं व्यापकानुपलब्धिपर्युदासः । वक्तृत्व
व्यवच्छेदेन च संवेदनम्, व्याप्याभावः । स्वभावहेतुपर्यवसिताश्च सर्वानुपलब्धयो
निषेधसाधनाध्यवसायाच्च भेदेन निर्देश इति न दोषः । तथाप्युक्तेन क्रमेण साक्षादेब
स्वभावानुपलब्धेर्निषेध इति कथमाचार्यपादैः परम्परयाभिधानादौपचारिकः कृत इति
चेत् ? निषेध्यस्यैव यदि दृश्यानुपलब्धिर्निषेद्ध्रा विवक्षिता तदौपचारिकः । यदि तु
परस्यापि तदा मुख्य इति को विरोध इति केवलमौपचारिककथने किं प्रयोजनमिति
स्यात् । तत्रापि दृश्यस्यैव निषेधो यथा शक्यः स्यात्, नान्यस्य सर्वज्ञवीतरागादेः
प्रधानपुरुषार्थस्येति कार्यतस्तत्रान्तर्भावः । तत्त्वतस्तु तस्य