191

५ ॥ सर्वशब्दाभावचर्चा ॥

इह सर्वशब्दाभावसाधने ज्ञानकार्यानुपलब्धिमेके प्रमाणयन्ति । एकज्ञान
संसर्गिविरहात् किल नेह स्वभावानुपलब्धेरवसरः । तथा हि त्रयमवश्यमस्यामभिधेयम् ।
घटादिमत्प्रतिक्षेपेण विशेषणं, स्वभावः, फलं चेति । तत्र दृश्यविषयविशेषणवशात्
पिशाचादेरप्रतिषेधः । एकज्ञानसंसर्गिवेदनस्वभावत्वेन रूपज्ञानाद् रसस्य । नाप्यभाव
पक्षदोषानुषङ्गः, व्यवहारफलतया च प्रत्यक्षसिद्धिरुपसंहिता । सा च प्रतियोगिज्ञानाश्रये
सत्युपपद्यते । तदेव हि प्रतियोग्यन्तराभावनान्तरीयकतया तदभावविकल्पजननसामर्थ्यात्
साधनं भवेत् । ततो मूढं प्रति तदात्मिकानुपलब्धिरभावव्यवहार