61a साधनीति युक्तम् ।
न च सर्वशब्दाभावे साध्ये कश्चिदेकज्ञानसंसर्गी लभ्यत इति नात्रावकाशस्तस्याः । स तु
शब्दराशिरभिमतप्रदेशे विद्यमानस्तदा ज्ञानकार्यमनारभ्यासितुं न समर्थ इति कार्यप्रति
षेधेऽपि निर्विशेषणैव सत्ता प्रतिषिद्धा भवतीति भावः ।

अत्र चिन्त्यते । न तावत् ध्वनिरित्येव श्रवणम्, वधिरस्यापि श्रवण प्रसङ्गात् ।
तस्मादिन्द्रियपाटवसहकृतस्यैव शब्दस्य श्रवणज्ञानजनकत्वम् । तच्च श्रवणपाटव
मेकज्ञानसंसर्गिविरहे दुरवधारम् । अतएव प्रदेशप्रत्यक्षापेक्षया घटनिषेधः । ततो
हीन्द्रियगुणं गणयन् घटापराधमेवानुपलब्धेरवधारयति । न च मनस्कारवत्
स्वसंवेदनसिद्धिरिन्द्रियस्य, जडत्वात् । नापीन्द्रियान्तरगम्यत्वम्, अतीन्द्रियत्वात् ।
कार्यं पुनरुपलब्धिरेवास्य । तत्सिद्धौ च कार्यानुपलब्धेरेवासिद्धिः । असिद्धौ सिद्धमनै
कान्तिकत्वम् । न हि विषये सत्यपीन्द्रियदोषात् संभाव्यमानोऽनुपलम्भस्तदभावनियतो
नाम ।

नाभाव एव शब्दस्य । तज्ज्ञानजननयोग्यस्तु नास्तीति ब्रूम इति चेत् ? सेयं
कुवेद्यवृत्तिरायाता, प्रथमं प्रागल्भ्यगर्भमभिमतप्रतिकरणमभ्युपगम्योपायबुद्ध्योप
न्यस्तस्यानुपायस्य परेण तत्त्वप्रतिपादने कृते पश्चादसाध्यत्वधोषणात् । सर्वथा अभाव
एव हि जिज्ञासिते कार्यानुपलब्धिरियं साधनमुक्ता । न तु ज्ञानजननयोग्यताविरह
जिज्ञासायाम् । तद् यदि प्रमाणभ्रंश एव कथञ्चिज् ज्ञातः प्रमेयभ्रंशस्तु किमङ्गाङ्गी