192
क्रियते ? वरं च प्रमाणान्तरमेव मृग्यताम् । असाध्यतैव तु कस्मादवघुष्यते ? न हि
शक्यमवधिरस्याशृण्वतः सन्निहितभेरीरवाद्यभावः प्रत्तिक्षेप्तुम्, वधिरावधिरयोर
विशेषप्रसङ्गात् ।

सति श्रुतिकृतोऽस्ति विशेषः प्राक् पश्चादिति चेत्—नैवम्, यदि हि प्रागवस्थातः
श्रवणशक्त्यानिर्विशेष एषः, कथमश्रुतिः सति शब्दे ? अन्यथा प्रागपि न स्यात् ।
अथ विसदृशावस्थोऽपि संभाव्यते, श्रुतावपि न श्रद्धातव्यम्, अस्य विप्लवस्य
संभाव्यमानत्वात् । तत्राश्रवणमभूतश्रवणं वेति न विशेषः । अन्ते कुतः शक्तिविपर्यय
इति चेत् ? मध्ये कुतस्तदभाव इति समानम् । तस्मादपक्ष एवायं सन्नपि शब्दस्तदा
न श्रुत इति । केवलं किमत्र प्रमाणमस्त्विति चिन्तायां कार्यानुपलब्धिरनैकान्तिकी
इत्युक्तमेव, श्रवणपाटवस्य दुरवधारत्वादिति ।

ननु कथमेतद् दुरवधारणं दृष्टश्रवणपाटवस्मरणबलवतः श्रोतुं प्रवृत्तस्य ।
क्षणिकत्वेऽपि हि विसदृशसहकारिप्रत्ययान्तरविरहे विसदृशदशासंभवाभावात् ।
इन्द्रियविकारकारिणो हि प्रत्यया धातुक्षोभप्रहारादयो निर्णीतशक्तयः स्वसन्ताने
सन्तानव्याकुलीभावहेतवः सूपलक्षा एव । अनुपलक्षितास्तु स्वप्रभवभेदशङ्का कथमिव
क्षमन्ते ? सूक्ष्मं तु प्रभाववतोऽधिष्ठानादिविकारकारणं शङ्कमानस्य श्रवणेऽपि क
आश्वासः ? तस्मादनुपलक्ष्यकारणारब्धदिङ्मोहलक्षणेन्द्रियभ्रान्तिदर्शनेऽपि प्रसिद्धकारणानुप
लक्षणान्नेन्द्रियाणामतादवस्थ्यव्यवस्था यथा, अन्यथा तत्प्रत्ययानां भ्रमत्वप्रसङ्गात्,
तथाद्यापि किं न गण्यते ? माभूत् सर्वसंवृत्तिविलोपः ।

अभ्यासदशासत्तिसमाश्रयस्तु समानः । न हि वधिरवरस्याभिरोपारूढश्रवणबल
स्याप्यश्रवणेऽभावनिश्चयं ब्रूमः, बलनिश्चयस्यैवाभावात् । तद्वदन्यस्याप्यकलितबलस्य ।
अत्यन्ताभ्यासे हि सकलरजनीसुप्तप्रबुद्धानामदर्शनेऽपि तदवस्थासंवेदिनाम् अविपरीत
व्यवहारवृत्तिदर्शनात् कः प्रस्तावी जाग्रतः स्वात्मन्यन्यथात्वशङ्कायाः ?

तस्मादतादवस्थ्यस्य तद्व्यवस्थाया वा निषेधः, प्रसिद्धकारणाभावात् तदुपलक्षणा
भावाद् वा ? यदि दर्शनश्रवणादावभ्यासदशापेक्षयाध्यक्षत्वनिबन्धनं तादवस्थ्यमिच्छता
संवृतिव्यवस्थिते नेन्द्रियतादवस्थ्यं सामग्रीप्रतिबद्धबुद्धितादवस्थ्यं वा, साधारणशक्त्यपेक्षया
संवेदनमेव वा शरणमास्थीयते, तदेवाश्रवणदशायामपीति, कथमनेकान्तः शब्दाभावे ?
ननु ज्ञानात्मन्येव स्वसंवेदनमिति चेत्—न,