201

६ ॥ अपोहप्रकरणम् ॥

अपोहः शब्दलिङ्गाभ्यां प्रकाश्यत इति स्थितिः ।
साध्यते सर्वधर्माणामवाच्यत्वप्रसिद्धये ॥

स्थितिर्व्यवस्था । प्रसाध्य? काश्यत इत्यन्तेनापोहोऽत्राभिधेय उक्तः । शेषेण
तत्प्रसाधनफलम् । अथवा यदाचार्यैरपोहः शब्दादिना प्रकाश्यत इति व्यवस्था क्रियते
तदेतदर्थमित्यर्थः । उभयथापि सर्वधर्मानभिलाप्यत्वप्रतिपादनपरमपोहव्यवस्थापन
मित्युक्तं भवति ।

नन्वपोहः शब्दलिङ्गाभ्यां प्रकाश्यत इत्यनुभवबाधितमेतत् । तथा हीह
महीधरोद्देशे वह्निरस्तीति शब्दाल्लिङ्गाद् वा प्रतीतिर्विधिरूपमेवोल्लिखन्ती लक्ष्यते ।
नानग्निर्न भवतीति निवृत्तिमात्रमामुखयन्ती । यच्चानुभवबाधितं न तत्र साधनान्तर
चिन्ता, सर्वप्रमाणपौरुषस्य तत्रैव विश्रामात्