233

७ ॥ ईश्वरवादः ॥

॥ पूर्वपक्षसंक्षेपः ॥

कर्मनिर्मितवैचित्र्यमनीशं यो जगज्जगौ ।
प्रणमामि प्रमाणेन तमव्याहतशासनम् ॥

इह प्रत्यवस्थानमन्येषाम्, विवादास्पदीभूतं भूधरादि बुद्धिमत्कर्तृपूर्वकम्,
कार्यत्वात् । यद्यत् कार्यं तद् बुद्धिमत्कर्तृपूर्वकं दृष्टम्, यथा घटः । कार्यं चेदं भूधरादि ।
तस्माद् बुद्धिमत्पूर्वकमिति । न चेदमसिद्धम्, बौद्धस्यापि विन्ध्यगन्धमादनादीनां
कार्यत्वे विवादाभावात् । नापि विरुद्धम्, सपक्षे भावात् । न चानैकान्तिकम्,
क्वचिदपि कार्ये बुद्धिमदधिष्ठानव्यभिचारस्य दर्शयितुमशक्यत्वात् । प्रत्यक्षागमाभ्याम्
अबाधनाच्च न कालात्ययापदिष्टम् । प्रतिहेतोरभावाच्च न प्रकरणसमम् । तदनेन यत्
सिद्धम्, तदुपादेयं विदुषाम्, साधनान्तरसिद्धवत् । न च सर्वत्रान्वयव्यतिरेके हेतुवल्ल
भतया बुद्धिमति कार्यस्य