265

॥ ईश्वरवादाधिकारे वार्तिकसप्तश्लोकीव्याख्यानम् ॥

प्रथमः खण्डः

कर्मनिर्मितवैचित्र्यमनीशं यो जगज्जगौ ।
प्रणमामि प्रमाणेन तमव्याहतशासनम् ॥
नित्यप्रमाणप्रतिषेधसिद्धौ यदप्रमाणत्वमनित्यभावे ।
विभावयन्नाह कृती तदंशे विमोहदंशापह एष मार्गः ॥
स्वयं निरस्यापि परस्य साधनान्यसङ्गतौ वार्तिककारकीर्तने ।
न निर्वृतिश्चेत् पुनरस्य वर्णनाद् वरं हि तद्वर्णनयैव विक्रमः ॥

यद् यत् कार्यं तत् तद् बुद्धिमत्पूर्वकम्, यथा घटः । कार्यं च महीमहीधरादि ।
यद् वा, यद् यत् न बुद्धिमत्पूर्वकं तत् तन्न कार्यम्, यथा आकाशम् । कार्यं च
तरुगिरिसागरादीत्यर्थतः कार्यहेतुः । एवमचेतनोपादानत्वम्, अर्थक्रियाकारित्वम्,
स्वारम्भकावयवसन्निवेशनाविशेषवत्त्वम्, स्थित्वा स्थित्वा कार्यकर्माणि, प्रवृत्तिधर्मकत्वं
च प्रयोज्यमिति कथमुच्यते,

अनित्येऽप्यप्रमाणतेति ?

एतच्च नित्यानित्ययोः साधारणमेव