८ ॥ कार्यकारणभावसिद्धिः ॥

2487प्रत्यक्षानुपलम्भेन त्रिविधेनापि सिध्यति ।
कार्यकारणयोरात्मा पञ्चकेनेति केचन ॥ १ ॥

प्रत्यक्षानुपलम्भसाधनः कार्यकारणभाव इति न्यायः । तत्र सामान्येन प्राक्प्र
वृत्तानुपलम्भसहायमुभयविषयं क्रमि प्रत्यक्षद्वयम् । यदि वा सामान्येनोभयग्राहि
प्रत्यक्षसहायं क्रमिकमनुपलम्भद्वयमिति त्रिविधमेव तत्साधनमित्येके । अन्ये तु तत्
त्रयमन्त्यद्वयसहायमेवेति पञ्चविधं नियतानुपूर्वीकमित्याहुः । आद्यत्रयसंभवेऽपि हि
प्रतिपत्तुर्नासन्दिग्धा बुद्धिरुपजायते, अन्त्यद्वये तु लब्धे सिध्यति । अन्वयव्यतिरेक
लक्षणो हि2488 हेतुफलभावः2489, तत्र 2490त्रयेणान्वयः प्रतीयते, 2491द्वयेन व्यतिरेक इति
पञ्चकेन साध्वी सिद्धिः । 2492तयोरेकैकानिश्चये तु सन्देहो दुर्निवार इति भावः ।

अत्र चिन्त्यते,

प्राचीनानुपलम्भश्चेदन्यतः2493 सङ्गमादिकम् ।
न निषेधति, किं तेन निषेधे पश्चिमेन किम् ॥ २ ॥

अनुपलम्भद्वयेन व्यतिरेकसाधनार्थमेव ह्यनुपलम्भः प्रार्थ्यते । स चानेन
हेत्वभिमताभावे 2494कार्याभिमतस्य भावं बाधमानेन साधनीयः । स च 2495भावस्त्रिधा
संभाव्यते । तत्रैव देशे स्थितिः, अन्यत आगमनम्, तद्विविक्तकलापादेवोत्पत्तिरिति ।
एवंविधबाधावैधुर्ये2496 किमत्र कारणमयमपेक्षते2497 ? न व्यतिरेकेऽस्योपयोगः ।

किं त्वन्वयग्राहिणि प्रत्यक्षे साहायकमावहतीत्युपदर्शितमेवेति चेत् ?

अस्मिन् सतीदं भवतीत्यक्षजेन गतं न किम् ।
318

न हि भावे भावादन्यो नामान्वयः । स च सिद्धोऽध्यक्षेणेति किमत्रानुपलम्भ
साहाय्येन ? नन्वेवमन्वयो यदृच्छोपनतस्यापि स्यात् प्रत्यक्षमात्रसंभवात् । प्रागभाव
ग्रहणविशेषणं तु प्रत्यक्षं तद्ग्राहीति नातिप्रसङ्गः 55a स तर्हि 2498त्रिविधभेद
भिन्नभावविपर्ययस्वभावः, प्रागभावोऽनुपलब्धेः, सिद्धोऽभावमात्रं वा ? आद्ये पक्षे
एतदायातम्,

अस्मिन् सतीदं भवति,

अन्यथाऽसंभवादिति व्यतिरेकोऽयमेव सः ॥ ३ ॥
न स्थितं तत्र नान्यस्माज्जातं नायातमन्यतः ।
यस्य भावे भवेत् कार्यं न चेत्तस्य न कस्यचित् ॥ ४ ॥

एतच्चानुपलब्धिपूर्वेण सिद्धमध्यक्षेणेति न किञ्चित् पश्चिमद्वयेन । तदपि हि
हेत्वभावे फलस्य तत्र स्थितिमन्यत उत्पत्तिमन्ययत्नेनान्यत्र गमनम् बाधमानमेव
व्यतिरेकसाधनम्, न पाश्चात्त्यद्वयमित्येव, तद्व्यापाराभावे शतेनाप्यभावात् । तच्चादि
मेन एकेन कृतमिति नापरस्योपयोगः ।

अथ पुनरभावमात्रमादिमोऽनुपलम्भः प्रत्येतीति मतिः,

अभावमात्रबोधेऽपि प्राच्यस्यानुपयोगिता ।
अस्यैतद्व्यापृतेः प्रागित्येवं किमवशिष्यते ॥ ५ ॥

अभावमात्रप्रतीतौ तावत् कस्य केनान्वयः ? अस्य भावेऽस्य भाव इत्यप्यन्वय
प्रतीतिर्यदृच्छोपनतेनातिप्रसज्यमानोपयोगपरिपन्थिन्येव । एतद्व्यापारात् पूर्वमभावः
अस्येति तु प्रतीतौ सैव त्रयी गतिरायातेति किं परिशिष्यते, यतोऽन्तिमद्वयं न वैफल्य
मावहेत् ?

अन्वये व्यभिचाराच्चेद् व्यतिरेकोऽनुगम्यते ।
प्रत्यक्षमात्रव्यापारेऽप्येवं किं नाभिधीयते ॥ ६ ॥

यदर्थमर्थ्येत प्राक्तनः अन्वयव्यतिरेकौ हि प्रत्येकं व्यभिचारादेव सहितौ
हेतुफलभाव उच्यते । तत एकैकस्यातद्भाविन्यपि संभवोऽबाधक एवेति समानमावयोः ।
319
ततो नान्त्ययोरादिमस्योपयोगः, आद्ये वान्तिमयोरिति सिद्धम् । न सिद्धम् ।
आदिमेन हि प्रागस्य व्यापारादेतन्नासीदिति प्रतियन्नपि एतद्व्यापाराभावप्रयुक्तोऽस्या
भाव इति नावधारितम्, चरमेण त्ववधार्यत इत्ययुक्तम्, आदिमस्य पुनरनुपयोगस्य
तादवस्थ्यात्2499

अपि च,

तन्मात्राभावतोऽभावात् पश्चिमेन विनिश्चयः ॥
तन्न्यायस्य समानत्वात् प्राच्येनापि न किं मतः ॥ ७ ॥

एतद्व्यापारात् प्राग् नासीदित्यपि हि तन्मात्राभावादेवाभावं ख्यापयति, यथोक्त
सत्तात्रैविध्यविधूतेराक्षेपात् । ततस्तेनानिश्चये पश्चिमेनापि मा भूत् । तत्र पूर्वेण द्वयोः
अभावस्य सन्निधिमात्रम्, नैकस्यानेन प्रयुक्तिरिति पश्यतः पश्चिमेऽपि क आश्वासः ?
तदनायत्तौ2500 तदभावेऽपि उत्पत्तिप्रसङ्गे द्वितीयाभावस्यैवायोगः समानः । अथ वह्नि
रासभयोरागमनानन्तरजन्मनोऽपि धूमस्य गर्दभाभावेऽप्यभावः प्राच्येनानुभूयत
इत्युच्यते । उभयापगमेऽपगच्छतः पश्चात्तनेनापि, इत्यपरापरोपायपरम्परानुसणेन
पञ्चकव्यवस्थाहानिः2501 । तथा सति त्रयं, न द्वयमिति चेत् ? पश्चिमेनापि न शक्यते
इत्येतावदुच्यते । स तु2502 द्वयोस्त्रयोर्वेति 55b किमनेन ? अस्त्युपयोगो द्वयस्यान्यस्य
अप्यभावे निश्चयायोगादिति चेत् ? यदैव तर्हि केवले हेत्वभावेऽनुपलम्भस्तदैव प्राच्यः
अपि समर्थ इति किं नेष्यते ? नो चेत् सर्वथानुपयोगादित्युक्तम्, अन्यथा प्रत्यक्षमपि
त्रयं, न द्वयमिति वक्तुं शक्यत्वात् । कि च पञ्चकवादिनः 2503समानसमयतयैवाविभागात्
प्राच्योऽनुपलम्भ एक इष्टः । स चाग्निगर्दभापगमेऽस्तीत्यनन्तरधूमानुपलम्भापेक्षयाद्यापि
द्वैतमेव ।

अपि च,

प्रागदृष्टौ क्रमात् पश्यन् वेत्ति हेतुफलस्थितिम् ॥
दृष्टौ वा क्रमशोऽपश्यन्नन्यथा त्वनवस्थितिः2504 ॥ ८ ॥
320

तत्तदाशङ्कानिराकरणार्थमुत्तरोत्तरपूर्वपूर्वोपलम्भानुपलम्भपर्येषणाप्रसक्तेः । तत्र
यथेष्टं त्रयादिव्यवस्था क्रियताम् । न तु 2505प्रत्यक्षं मध्यमधिवास्यानुपलम्भयोः कश्चिद्
उपयोगः, अन्यशङ्कने द्वयोरप्यनाश्वात्, तद्विवेचने चैकेनैव सिद्धेः ।

तस्मात्,

2506प्रत्यक्षानुपलम्भाभ्यामन्वयव्यतिरेकयोः ।
निश्चये संशयो नाम कीदृक् हेतुफलस्थितौ ॥ ९ ॥

अर्थान्तरत्वे तयोरेव तद्भावरूपत्वात् । तयोश्च न प्रतीतिनियमः कश्चित्,
द्विधापि सिद्धेः । स्यादेतत्, व्यतिरेकदार्ढ्यादेवं व्यवस्था । अतस्तद्ग्रहिणोऽनुप
लम्भस्यान्वयविषयप्रत्यक्षातिवृत्तिरुचितैव । न, नान्तरीयकत्वमेव हि प्रमाणस्य प्रमेये
द्रढिमानमारोपयति । न बाहुल्यम् प्रमाणाभासेष्वपि दर्शनात् । एक एव च दृश्या
नुपलम्भस्तदभावेऽत्यन्तमभावसाधनसाधुरिति किमधिकधावनेन ? न हि तदा
गन्धोऽपि धूमस्य संभावनीयः । ननु भूयसामभावात् कस्याभावे न भूतो धूम इति
निश्चेतव्यमिति चेत् ? अत एवान्वयग्राहिप्रत्यक्षमपेक्ष्यते अन्याभावप्रयुक्तत्वे
ह्येतदभावस्य, नास्य संभवमयमाद्रियेत । एवमन्वयग्रहणपूर्वकेऽपि निश्चये भूयसां
संभवात्2507 कस्य भावप्रयुक्तोऽस्य भाव इति जिज्ञासायामनुपलब्धेर्यदभावप्रयुक्तोऽस्या
भावः संप्रति तद्भावप्रयुक्तः प्रागप्यस्य भाव इति सिध्यति । तत्र चैकैकस्योपनयेऽपनये
वा तथा प्रतिपत्तुं शक्यम् । तथा च सति प्राच्यस्य पश्चिमस्य वा व्यतिरेकसिद्धौ शक्तिः,
अनेकोपनयादौ तु द्वितयस्याप्यशक्तिरिति स्थितम् ॥

अव्यापिनी चेयं पञ्चकव्यवस्था । भस्मानलकलसकुम्भकारादिषु पश्चिमा
भावात्, नीराधारादिषु च प्राच्याभावेऽपि सिद्धः । तथा हि सति सेतौ पयःपूर
स्थेमानमुपलब्धवतस्तद्भावे2508 2509तद्भावदर्शिनस्तयोर्हेतुफलभावनिश्चयः प्राच्यानपेक्ष
एव । तद्वदन्यत्रापि त्रिकापेक्ष एवेति वेदितव्यम् ।

अथ प्रागदृष्ट्वा वह्निसन्निधौ धूमदर्शने वह्निमपेक्ष्यान्य एव जनयतीति कि न
कल्प्यते ? एवमपि वह्नेः कारणत्वमेवेन्धनस्येव । एवं तर्ह्यन्यस्यापि यदृच्छासन्नि

321
हितस्य गर्दभादेः कारणत्वमस्तु, ततश्च तस्यापि धूमादनुमानप्रसङ्ग इति चेत् ? तत्
किं वह्नेः कारणत्वनिश्चय 56a इत्येवं गर्दभस्यापि ? अथ प्रत्यक्षानुपलम्भयोस्तत्रापि
वृत्तेः 2510उभयस्याप्ययोगात् । न चान्यस्य तथा निषेधाय त्रयाश्रयणम्, अपि तु
वह्नेर्विधये । स च सिद्ध इत्यन्यस्यानिषेधोऽबाधक एव । अननुमानं तु कारणत्वा
निश्चयादेव । न कदाचिदग्निमपेक्ष्य गर्दभः करोतीति शङ्कैव निश्चयो विरोधात्,
तस्याः संशयरूपत्वात् । तन्निषेधोऽपि तस्यैव परीक्षया नान्यस्येत्यस्थानमेवंविध
प्रलापस्य । ननु तथापि वह्निः कारणमित्यवधारणानुपपत्तेर्दुस्थैव स्थितिः । न हि वह्नि
रेव कारणम्, अन्यस्याप्यनिराकरणात्, इन्धनस्यापि परमार्थतः कारणत्वाच्च । न च
कारणमेव, अनारब्धधूमस्यापि संभवादिति न चोद्यम्, त्रिविधस्यापि व्यवच्छेदस्य
सिद्धेः ।

तथा हि,

सामग्र्यपेक्षयान्यस्य च्छेदे द्रव्यव्यपेक्षया ।
योग्यतायामयोगस्य सिद्धोऽत्यन्तं च कर्मणि ॥ १० ॥

यदा हि दहनशब्देन तदुपलक्षिता सामग्री समासेनाभिधीयते, तदा स एवेत्यन्य
योगव्यवच्छेदः । यदा तु दहनद्रव्यमेव तदापि कारणत्वं नाम यदि योग्यता, तदा
कारणमेवेत्ययोगव्यवच्छेदः । अथ क्रियैव, तदापि भवत्येवेत्यत्यन्तायोगव्यवच्छेदश्च
सिद्धः । स चायमियान् व्यापारस्त्रिविधस्यैव प्रत्यक्षानुपलम्भस्य शक्य इति युक्तमत्र भागे
भट्टार्चटपादव्याख्यानमेव ।

भगवतो वार्तिककारस्यापि स्वयमेव,

कुम्भस्य कुम्भकारेण करणं भस्मनोऽग्निना ।
शस्त्रादिना व्रणादेश्च ब्रुवतो मतमेव तत् ॥ १ ॥

कथं पुनः कार्यत्वाविशेषाद्धूमादिव भस्मनोऽपि नाग्नेरनुमानम् ? न, देशकालाद्य
पेक्षया अभिमतत्वात् । तथा हि,—

किमप्युदयमात्राय कार्यं हेतुमपेक्षते ।
प्रबन्धस्थितयेऽप्यन्यत् कालवित्तदपेक्षया ॥ १२ ॥
322

तत्र कलसभस्मादिभ्यो जन्मन्येवापेक्षितपरेभ्यः, अत एवार्थान्तरापेक्षप्रबन्ध
वैधुर्येभ्यः, अतीत एव हेतुसन्निधेः कालः शक्यनिश्चयो, न तु वर्तमान इति न प्रवृत्त्यादि
सङ्करः । उत्तरेभ्यश्च धूमालोकादिभ्यो दशाविशेषापेक्षानपेक्षप्रबन्धवैधुर्येभ्य उपादान
विकलतया प्रवाहविच्छित्तयेऽनपेक्षितपरेभ्यो वर्तमान एवेति न दोषः । एतदपेक्षया
त्वाचार्यधर्मोत्तरस्य पश्चिमद्वयस्य श्रयणयत्नः फलेदपि । न तु पञ्चकनियमः तदापि
परभागभाक् । प्रत्यक्षपूर्वकेऽनुपलम्भेऽन्यापेक्षाऽभावादिति प्रथममेव श्रेयः ॥

2511एकादशश्लोकीसंगृहीता त्रिविधप्रत्यक्षानुपलम्भपूर्विका कार्यकारणभावसिद्धिः
महापण्डितज्ञानश्रीमित्रपादस्य कृतिः2512 समाप्ता2513
  1. इतः पूर्वं नमो मञ्जुश्रीकुमारभूतायेति भोटग्रन्थेऽधिकम्,

  2. ०लक्षणादि० भोटपाठानुसारेण ।

  3. ०भावसिद्धिरिति भोटपाठः ।

  4. प्रत्यक्षेणेति भोटपाठः । पूर्वानुपलम्भसहकृतप्रत्यक्षद्वयेनेति
    भोटपाठार्थः ।

  5. द्वयेनेति अनुपलम्भद्वयेनेत्यर्थः ।

  6. अन्वयव्यतिरेकयोः ।

  7. फलेनेति बोध्यम् ।

  8. कार्यद्वया० भोटपाठः ।

  9. कार्यस्येत्यध्याहार्यम् ।

  10. बाधस्याभाव इत्यर्थः ।

  11. अपेक्ष्यत
    मातृका । अयमिति भावस्य परामर्शः ।

  12. त्रिविधेति तत्रैव स्थितीत्यादिपक्षत्रयं प्रदिष्टम् । भेदशब्दो मातृकायां दुष्पठः भाटपाठथ दद्
    समर्थितः ।

  13. दङ् पोहि आदिमस्य यङ् पुनः दोगस् प मेद अनुपयोग दे ञिद् ल गनस्
    पहि पियर् रो तादवस्थ्यात् । मातृकात्र संदिग्धपाठा ।

  14. रग् म लस् प अनायत्ति ?
    मातृका संदिग्धपाठा ।

  15. हानिरिति मातृकायां दुष्पठम्, भोटपाठान्निश्चितम् ञम्स्प

  16. स त्विति
    पश्चिमानुपलम्भस्त्वित्यर्थः ।

  17. समय इति मातृकायां दुष्पठम् । भोटपाठे गशुङ् = समयः = सिद्धा
    न्तः । अत्र तु कालार्थकः समयशब्द इति भाति ।

  18. मातृका दुष्पठा । भोटपाठे थुग् प भेद प
    अनवस्थितिः । १६९ पृष्ठेऽप्ययं श्लोकः । तत्राप्येतदनुसारेण पाठः संशोध्यः ।

  19. मङोन् सुम् प्रत्यक्ष दबुस् सु मध्य वशग पहि अधिष्ठाप्य ? मि दमिग्स् प
    दग् अनुपलम्भयोः ।

  20. भोटपाठोऽस्य श्लोकस्य गद्यात्मकः ।

  21. म स्रिद् प असंभव
    इति भोटपाठः ।

  22. ,

  23. उभयत्र भोटपाठ योद् प भाव; मातृकायां तूभयत्रैव अभाव इति ।

  24. गञिस् ग लउभयोः यङ् च मि रिग्स् पहि पियर् अयुक्तत्वात् ।

  25. मातृकायां ग्रन्थभागे यथाप्रदर्शितं द्वादश श्लोकाः ।

  26. मखस्·प·छन्·पो·ज्ञा·श्री·मि·त्र·
    हि·शल्·स्ञ·नस्·क्यिस्·मजद्·प·
    इति भोटपाठानुसारेणैव कल्पितः कोष्ठकनिहितभागः ।

  27. भोट
    पाठ एवानन्तरोक्तमधिकं विवरणं लभ्यते । बर्ग्य·गर·ग्यि·मखन्·पो·पण्डि·त·कु·मा·क्ल·शु
    दङ् । लो·चा·ब·दगे·स्लोङ्·शा·क्य·होद्·ग्यिस्·बस्ग्युर् । स्लद्·क्यि·बल्·युल्·ग्यि·
    पण्डि·त·अ·न·न्त·श्री·दङ्·।·लो·चा·ब·दे·ञिद्·क्यि·गतुग्स्·शिङ्·गतन्·ल·फब्·
    पो ॥
    भारतीयोपाध्यायकुमारक्लशुन ? कलशेन भोटभाषानुवादकेन भिक्षुशाक्यप्रभेण चानू
    दिता । ततश्च नेपालपण्डितानन्तश्रिया तेनैव च भोटभाषानुवादकेन स्पृष्ट्वा पाठो निर्णीत इति
    भावः ॥