65b चतुरार्यसत्यभावनस्य सर्वविषयानुमानसंभवे स्वेच्छायाः
प्रतिपादनात् ।

अथ सर्ववस्तुसाक्षात्कारेऽन्यदेव सुखं परार्थसाधनं वेति पश्येन्न भावनया
परिखेदः कश्चित्तदवस्थस्य सुकरश्च सर्वस्फुटीभावः संभवतीति महोदधिनापि नाधिकं
किञ्चिदुक्तम् । उक्तं च तावतैव प्रत्युक्तम् । तस्माद् यथा यथा चिन्त्यते संशयमात्र
फलः सर्वविदि दूषणोपन्यासो नैकान्तेन बाधे विकल्पः । प्रकृतसर्वज्ञस्य तु साधन
मेकान्तेनैव । तत्रापि न देशकालपुरुषनियम इति चेत्—न, तदपेक्षायां साधनस्य
अप्रयुक्तत्वात् । सर्वथापवादिनं प्रति हि साधनमेतत् । तच्च देशाद्यनियमेऽपि कृतार्थम् ।
तथा चैवंविधमुद्भेदितमस्माभिः सर्वज्ञसिद्धाविति ॥

॥ योगिनिर्णयो नाम प्रकरणं समाप्तम् ॥