166 तवारीणामित्यपेक्षणीयम् । नृत्यन्ति [इति] उत्प्रेक्षा, तेषामपि नृत्ययोगात् । अत्र जुगुप्साख्यो भावः तादृशविभावजनितः, अनुभावेन तद्रूपेणाभिव्यक्तः । विकृतरूपबीभत्सरसस्वभावतामनुभवन्नलङ्कारत्वेनेष्ट इति द्रष्टव्यम् ॥
सखि ! तवाद्यापि अम्लाना प्रत्यग्रा परिणयोत्सवनिवेशिता माला कुसुमदामानि यस्या इत्यम्लानमालायाः । अन्ये तु पुरुषायितपरिश्रमेण म्लानमालत्वेऽपि अम्लानमालाया इति विशेषणमुपहासपरम् इति व्याचक्षते । स्तनस्य तटे प्रदेशे लग्नं व्यवस्थितं नखपदमिदं दृश्यमानं मयूरपदकशशप्लुतकादिरूपं90 नवमभिनवमार्द्रं छाद्यतां संव्रियतामुत्तरीयेण संव्यानेन । किमेवमतित्वरितम् । आनन्दिताः सखि ! वयम् । साधु कुतम् । अत्रानुचितार्थदर्शनविभावात् कृतो हासाख्यो भावः समुद्रिक्तरूपो हास्यरसतामागतः । काव्यशोभाकरमिदं विज्ञेयम् ॥
एषां नन्दने उद्यान शाखिनाम् अंशुकानि वस्त्राणि प्रवालानि पल्लवानि हारादि च भूषणमलङ्कारः पुष्पम् । आदिशब्देनाङ्गदकुण्डलादिपरिग्रहः । शाखाश्च विचित्रसंनिवेशविशेषाः । मन्दिराणि प्रासादाः । [अ]हो चित्रमिदमपूर्वमिदं दृष्टम् ! इह विस्मयो नाम भावः परिस्फुटीभूतोऽद्भुतरसतामासेवत इति वेदितव्यम् ॥
मघोनः शक्रस्य कुलिशं वज्रमिदं दृश्यते । धारासु कोटिषु सन्निहितो व्यवस्थितोऽनलोऽग्निरस्येति धारासन्नि
-
वात्स्यायनीये कामसूत्रे २. ४. १९-२०
↩