167 प्रकृतम् । अत्र भयाख्यो भावः समुद्भूतो भयानकरसरूपेण तिष्ठन्नलङ्कारः स्मृत इत्यवसेयम् ॥
नन्वियं रसवत्ता प्रागेव माधुर्यप्रस्तावे दर्शिता । तत् किं पुनरुच्यत इति चेदाह—
वाच्यस्य काव्याधेयवस्तुनः सम्बधिनी सा ग्राम्यता असभ्यता योनिः प्रभवः अस्येति अग्राम्यतायोनिः । गमकत्वाद्वाच्यस्येति सापेक्षत्वेऽपि समस्यते । रसोऽर्थरसः । माधुर्ये शब्दार्थसाधारणे विभज्यमाने दर्शितः कामं सर्वोऽप्यलङ्कार १.६२ इत्यादिना । इह तु रसवदलङ्कारेऽष्टौ यथोक्ता रसास्तेष्वायत्ता प्रतिबद्धा रसवत्ता रसयोगिता अष्टरसा इति यावत् । गिरां काव्यानां सम्बन्धिनः स्मृता अभिमता इति ।
इति भावरससंग्रहश्लोकाविति ॥
ऊर्जस्वि निदर्शयन्नाह—
अहमस्यापकर्ता प्रतिकूलवर्ती प्राप्तश्चेदानीमनेनास्मि भवामीति हेतोस्ते तव हृदि चित्ते भयं त्रासो मृतोऽस्मीति मा स्म भूत् मा भैषीः । न त्वां हन्मि । नहि जातु