तदुभयं विवृण्वन्नाह—

पूर्वत्राशयमाहात्म्यमत्राभ्युदयगौरवम् ।
सुव्यञ्जितमिति व्यक्तमुदात्तद्वयमप्यदः ॥ ३०१ ॥

पूर्वत्र गुरोरित्यादौ प्रयोगे आशयस्य चित्तस्य माहात्म्यमत्युदात्तत्वमुक्तरूपम् । अत्रा[न]न्तरे रत्नभित्तिष्वित्यादौ अभ्युदयस्य विभूतेर्गौरवं माहात्म्यमुक्तरूपं सुव्यञ्जितमाख्यातमितीदृशमिति वा हेतोरदस्तदुदात्तयोर्द्वयमपि नैकम् । आशयोपात्तं च व्यक्तं परिस्फुटमभवदिति ॥