गुरोः शासमत्येतुं न शशाक स राघवः ।
यो रावणशिरश्छेदकार्यभारेऽप्यविक्लवः ॥ २९९ ॥

गुरोः पितुर्दशरथस्य शासनं राज्यमिदं मया भरताय दत्तं त्वया वनमावस्तव्यमित्याज्ञामत्येतुं लङ्घितुं न शशाक न समर्थोऽभूत् विनयपरवशतया स राघवो रामः । किमसावित्थमकिञ्चित्करो यत् स्वभाव्यं राज्यमन्यस्मै दीयमानमात्मानं च वने क्षिप्यमाणमपेक्षते ? नैवम् । गुरुभक्तिः कापि सा तस्येत्याह- य इत्यादि । यो राघवः रावणस्य दशकन्धरस्य राक्षसराजस्य दासीकृतत्रैलोक्यस्य शिरसां छेदः कार्य त्रैलोक्यार्थमनुष्ठेयत्वात् तदेव भारोऽतिदुर्वहत्वात् । तत्रापि किम् ? पुनरात्मविपक्षनिग्रहमात्रेऽविक्लवः शक्तः स तादृशः गुरोराज्ञां नातिचक्रामेत्याशयमाहात्म्यं विनयोत्कर्षराज्यलोभानभिभवादिलक्षणमालक्ष्यत इति ॥