इयं कतमापह्नुतिरित्याह—

इति चन्द्रत्वमेवेन्दोर्निवर्त्यार्थान्तरात्मना ।
उक्तः स्मरार्तेनेत्येष स्वरूपापह्नुतिर्मता ॥ ३०६ ॥

इत्युक्तेन विधिना इन्दोश्चन्द्रत्वममृतमयत्वं स्वरूपं निवर्त्यापह्नुत्यार्थान्तरात्मना विषरूपेणोक्तः उद्भावित इन्दुः । उक्तमित्यपि पाठः । तत्र चन्द्रत्वमुक्तं स्वरूपेण निवर्त्य रूपान्तरेणोक्तमिति योज्यम् । स्मरार्तेन कामातुरेण विरहिणा केनचिदिति हेतोः स्वरूपापह्नुतिरेषा [मता] ज्ञेया, चन्द्रस्वरूपस्या81a पह्नुतेरिति ॥

173 ननूपमापह्नुतिरिह संगृहीता । सा हि कथञ्चिदन्तर्भूतोपमेष्यते । यदाहुः—

अपह्नुतिरभीष्टा च किञ्चिदन्तर्गतोपमा ।
भूतार्थापह्नवादेषा क्रियते सामिधा यथा ॥
94

लक्ष्यं चेदं दत्तम् ।

नेयं विरौति भृङ्गाली मदेन मुखरा मुहुः ।
अयमाकृष्यमाणस्य कामस्य धनुषो ध्वनिः ॥ इति ।
95

  1. काव्यालङ्कारे ३. २१
  2. काव्यालङ्कारे ३. २२