172 अन्येषां किलेयं सृष्टिः शीताह्लादकरी । किलशब्देन93 श्रुतगम्यतां शीततायाः सूचयति । दुष्टताया एवानुभवगम्यत्वात् । विरहविप्लुतचित्तः कश्चित्कामुकः कथयतीति ॥

केयमपह्नुतिरित्याह—

शैशिर्यमभ्युपेत्यैव परेष्वात्मनि कामिना ।
औष्ण्यप्रदर्शनात्तस्य सैषा विषयनिह्नुतिः ॥ ३०४ ॥

तस्य चन्दनादेर्वस्तुनः परेष्वन्येषु स्वस्थेषु विषये शैशिर्यं शैत्यमभ्युपेत्याग्निकृत्यापह्नुत्या एवात्मनि विषये केनचित् कामिना वियुक्तेन औष्ण्यस्य चन्दनादिगतस्य प्रदर्शनादुद्भावनात्कारणात् सैषा तादृशी विषयापह्नुतिः । विषये क्वचिद्वस्तुरूपापह्नुतेः, न सर्वत्रेति ॥

अमृतस्यन्दिकिरणश्चन्द्रमा नाम नो मतः ।
अन्य एवायमर्थात्मा विषनिष्यन्दिदीधितिः ॥ ३०५ ॥

अमृतं सुधा स्यन्दन्ते स्रवन्तीत्यमृतस्यन्दिनः किरणाः अस्येति अमृतस्यन्दिकिरणः पदार्थविशेषश्चन्द्रमा नाम नोऽस्माकं मतः प्रसिद्धः । अयं तु अन्य एवार्थात्मा पदार्थः । कुतः ? विषममृतविरुद्धं निष्यन्दमानाः क्षरन्त्यो दीधितयः किरणा अस्येति विषनिष्यन्दिनो दीधितयो यतस्तस्मात्कथमयं चन्द्रस्तद्विरुद्धलक्षण इति कश्चिद्विरही विप्लवत इति ॥

इयं कतमापह्नुतिरित्याह—

इति चन्द्रत्वमेवेन्दोर्निवर्त्यार्थान्तरात्मना ।
उक्तः स्मरार्तेनेत्येष स्वरूपापह्नुतिर्मता ॥ ३०६ ॥

इत्युक्तेन विधिना इन्दोश्चन्द्रत्वममृतमयत्वं स्वरूपं निवर्त्यापह्नुत्यार्थान्तरात्मना विषरूपेणोक्तः उद्भावित इन्दुः । उक्तमित्यपि पाठः । तत्र चन्द्रत्वमुक्तं स्वरूपेण निवर्त्य रूपान्तरेणोक्तमिति योज्यम् । स्मरार्तेन कामातुरेण विरहिणा केनचिदिति हेतोः स्वरूपापह्नुतिरेषा [मता] ज्ञेया, चन्द्रस्वरूपस्या

  1. मयि शीतेति मुद्रितपुस्तकेषु । शीता किलेति रत्नश्रियः । एष एव वादिजङ्घालाद्यभिमतः पाठः ।