तामुदाहरन्नाह—

तापसेनापि रामेण जितेयं भूतधारिणी ।
त्वया राज्ञापि सैवेयं जिता मा भून्मदस्तव ॥ ३४२ ॥

187 रामेण दाशरथिना भार्गवेण वा तापसेन चतुरङ्गबलहीनेन तपस्विनापि । अ[नादरं] सूचयत्यपिशब्दः । कथञ्चिदनुगृहीतमुनिरूपेण जन्मान्तरोपात्ततपःप्रभावयोगाद्वा । तापसेनेति श्लिष्टम् । अत्र एवेयं श्लेषानुगतैव प्रवर्तते । यद्वक्ष्यतिइति श्लेषानुविद्धानामित्यादि२.३४५ । इयं भूतधारिणी पृथिवी जिता आक्रान्ता । त्वया तु चतुरङ्गबलपरिवारिणा राज्ञा नराविपेनापि सता । नातःपरमिहाधिकं पदम् अस्तीत्यपिशब्देन सूचयति । सैवेयं जिता तापसेन जिता एव । नान्या तदहमजयं पृथिवीमिति मदोऽहङ्कारस्तव मा भूत् । कोऽत्र विशेष इति चेत्-निन्दनेन च । महानुभावेन जितसमस्तमहीमण्डलेन सकलनरेन्द्रचूड़ामणिना गुणारामेण रामेण समीकृत्य परया स्तुत्या संयोजितो राजा कश्चिदिति व्याजस्तुतिरीदृशी सुतरां रमणीयेति ॥