अम्भोरुहांमवाताम्रं मुग्धे करतलं तव ।
इति धर्मोपमा साक्षात् तुल्यधर्मनिदर्शनात् ॥ १५ ॥

मुग्धे बाले ! प्रियामन्त्रण[मेतत् ।] तव करतलं हस्तोपरिभागः आताम्रमरुणम् । किमिव ? अम्भोरुहमिव कमलमिव इतीयमेवंजातीया धर्मोपमा ज्ञेया । कुतः ? करतलाम्भोरुहयोर्द्वयोः समानस्य धर्मस्य गुणस्याताम्रलक्षणस्य निदर्शनात् प्रतिपादनात् कारणात् । कथम् ? साक्षाद्वाचकव्यापारेणाताम्रपदप्रयोगात्, न त्वर्थात् । ततः शब्दोपात्तत्वात् साधारणस्य धर्मस्य । तेनैवेयं व्यपदिश्यते नान्यथा, तथा विवक्षितत्वात् ॥