इवश्च वच्च यथा च ते शब्दाश्चेति विग्रहः । समाननिभसन्निभाः पूर्ववच्चार्थः । शब्दा इति वक्ष्यमाणमपेक्ष्य पुंस्त्वमिति ॥ तुल्यादिष्वप्यनन्तरो[क्तेषु तथैव] वाच्यमिति । सदृशादिकमपि पूर्ववत् सुगममिति ॥ सलक्षणादीनामपि सैव रीतिः ॥ आदिशब्देन बहुजादिपरिग्रहः ।
रूपकं निरूपयन्नाह—
उपमैव यथोक्तलक्षणा रूपकमिष्यते तज्ज्ञैः । न कश्चित् तर्हि विशेषः तयोर्नाममात्रं भिद्यत इत्याह—तिरोभूतभेदेति । तिरोभूतोऽप्रकटो भेदो नानात्वम् उपमानोप-