चरन्ति चतुरम्भोधिवेलोद्यानेषु दन्तिनः ।
चक्रवालाद्रिकुञ्जेंषु कुन्दभासो गुणाश्च ते ॥ ९९ ॥

ते तव दन्तिनो जयकुञ्जराः चतुर्णां पूर्वादीनाम् अम्भोधीनां वेलोद्यानेषु वेलायां वेलारूपाणि वा उद्यानानीति समासः । चरन्ति क्रीडन्ति चक्रवालाद्रेर्लोकालोकाचलस्य कुञ्जेषु सिद्धाध्यासितेषु प्रदेशेषु कुन्दस्येव भासो दीप्तयो येषामिति कुन्दभासो विशदाः, तव गुणाश्च त्यागसत्यशौर्यादयः । किम् ? चरन्ति श्रुतिपथमवतरन्ति उदधिवासिनामिति कश्चित् राजा स्तूयते । अत्र चरन्तीति क्रियावाची प्रथमप्रयुक्तः सर्वमेतद्वाक्यमुपकरोतीति क्रियादीपकमेवंजातीयं विज्ञेयमिति ॥