97
विष्णुना विक्रमस्थेन दानवानां विभूतयः ।
क्वापि नीताः कुतोऽप्यासन्नानीता देवतर्द्धयः ॥ १०१ ॥

विक्रमस्थेन बलिबन्धसंनद्धेन विक्रममाणेन दानवानां विभूतयः श्रियः । क्वापि क्वचित् इदन्तया अनिर्देश्ये स्थाने नीताः ।