पवनो दक्षिणः पणें जीणें हरति वीरुधाम् ।
स एवावनताङ्गीना मानभङ्गाय कल्पते ॥ ९८ ॥

पवनो दक्षिणो मलयानिलः । वीरुधां लतानां गुल्मानां वा सम्बन्धि पणें शीर्णं हरति क्षिपति, नताङ्गीनां मानवतीनां नवाय प्रत्यग्राय मानस्य विषयस्य वामताविशेषस्य भङ्गाय विगमार्थं च कल्पते संपद्यते । किम् ? पवनो दक्षिण इत्यपेक्षते । इह पवनजातिवाचिनादिवर्तिना सर्वमेतत् वाक्यमुपक्रियत इति जात्यादिदीपकमीदृशमवसेयम् ॥