एवंलक्षणोऽर्थान्तरन्यासः किंप्रभेद इत्याह—

विश्वव्यापी विशेषस्थः श्लेषाविद्धो विरोधवान् ।
अयुक्तकारो युक्तात्मा युक्तायुक्तो विपर्ययः ॥ १६८ ॥

विश्वं जगत्सर्वं व्याप्नोति सर्वत्र सम्भवादिति विश्वव्यापी । विशेषे क्वचित् विषये तिष्ठति न विश्वं व्याप्नोति विशेषस्थः । श्लेषः एकार्थता एकशब्दता वा तेनाविद्धोऽनुगतः श्लेषाविद्धः । विरोधः परस्परव्याघातो विद्यतेऽस्मिन्निति विरोधवान् । अयुक्तम् अनुचितं करोतीति अयुक्तकारी । अयुक्त इत्यर्थः । युक्तः समुचितः118 आत्मा स्वरूपं यस्य स तथा । युक्त इति यावत् । युक्तश्चासौ कथञ्चिदयुक्तश्चेति युक्तायुक्तः । विपर्ययोऽयुक्तयुक्त इति ॥