तद् व्याचष्टे—

स्वजातिव्यतिरेकोऽयं तमोजातेरिदं तमः ।
दृष्टिरोधितया तुल्यं भिन्नैर्धर्मैरदर्शि यत् ॥ १९६ ॥

यद् यस्मात् तमोजातेः प्रसिद्धाया बहिर्ध्वान्तस्य तुल्यमिदमनन्तरोक्तं तमः । कथम् ? दृष्टिरोधितया हेयोपादेयदर्शनविबन्धकत्वेन हेतुना । अन्यैः दृष्टिरोधितायाः सकाशात् भिन्नैः अरत्नालोकसंहार्यत्वादिभिर्धर्मैः हेतुभूतैः भिन्नं विलक्षणं तमोजातेरित्युत्प्रेक्ष्यते । अदर्शि यद् दर्शितमुक्तम् । तस्मात् स्वजातिव्यतिरेकोऽयमीदृशः । तस्याः तमोजातेः प्रसिद्धायाः कथञ्चिद् व्यतिरिक्तत्वाद् एवंविधस्य तमस इति ॥