तमुदाहरन्नाह—

धैर्यलावण्यमाहात्म्यप्रमुखैस्त्वमुदन्वतः ।
गुणैस्तुल्योऽसि भेदस्तु वपुषैवेदृशेन ते ॥ १७९ ॥

धैर्यं निर्विकारत्वं लावण्यं सौन्दर्यं लवणरसत्वं च माहात्म्यं गुणलक्षणं वैपुल्यं च प्रमुखम् आदिर्येषामेवमादीनां तैर्गुणैः त्वं विवक्षितः कश्चित् । उदन्वतः समुद्रस्य तुल्योऽसि । सादृश्यमुक्तम् । भेदं दर्शयन्नाह- भेदस्त्वित्यादि । भेदस्तु विशेषको वपुषा ईदृशेन दृश्यमाने[न] करचरणादिमता रुचिरेण वपुषा शरीरेणैव नान्यथा । तस्येदृशं वपुर्नास्तीति ॥