64b वक्त्रं तव निसर्गेण स्वभावादेव सुरभि सुगन्धि, न मुखवासादिना । वपुश्चाव्याजे[न] प्रयत्नेन तादृशेन विना सुन्दरम् अभिरूपम् । अकारणेन विनापकारेण केनचित् चन्द्रो रिपुः वर्तते, व्यथाहेतुत्वाद् विरहिणाम् । स विवक्षितः कश्चित् पुमान् निर्निमित्तं सुहत् मित्रं वर्तते, तथाविधसम्भवोपकारकभावाद् इति ॥
कतमेयं विभावनेति विवृणोति—
निसर्गादिभिः पदैः शब्दैः कर्तृभूतैः करणैर्वा । आदिशब्देनाव्याजादिपरिग्रहः । हेतुः कारणं सुरभित्वादिः मुखवासादिलक्षणः साक्षाद्वाचकव्यापारेण, न सामर्थ्यात् । निवर्तितो निषिद्धः फलं च तस्य सुरभिसुन्दरत्वादिग्रहणेनोपादीयते । उक्तं साक्षादेव । ततः किमित्याह- तत् सा विभावनेति । यत एवं ततस्तस्मात् स्वाभाविकफला विभावना ज्ञातव्या । या परैः
- [ ↩