निर्णेतुं शक्यमस्तीति मध्यं तव नितम्बिनि ।
अन्यथा नोपपद्येत पयोधरभरस्थितिः ॥ २१६ ॥

नितम्बिनि ! तव मध्यं स्तनजघनयोरन्तरमस्तीति निर्णेतुं निश्चेतुं शक्यम् पार्यते । कथम् ? पयोधरयोः पयोधरलक्षणस्य भरस्य स्थितेरवस्थानस्य तदाधारमध्यव्यतिरेकेण अन्यथा प्रकारान्तरेण अनुपपत्तेरयोगात् । पयोधरभरः तावत् अवतिष्ठमानोऽतिस्थूलत्वात् साक्षादपेक्षते [मध्यरूपमाश्रयम् । तत्र] मध्ये सन्देहः । तदप्ययमेव निश्चाययति । विना तेनानुप[पद्य]मानावस्थान[त्वात्] काममतिक्षामम्137 मध्यं तत्रापि [उन्नेयम्] एव । अत्र निश्चयो जगतः । नैवमन्यथानुपपत्तिमृते लभ्यतेः । तथापीयमतिगतिरीदृशी युक्ततया नीता कविनेति निश्चयातिशयोक्तिरीदृशी प्रीतिसर्वस्वं रसिकानामिति ॥